________________ वधीयचरितं महाकाव्यम् कोरकाः सजाता अस्य सः, कोरक+इतच् / अङ्गम्रदिम्ना=मृदो वो प्रदिमा, "मृदु" शब्दसे "पृथ्वादिभ्य इमनिज्वा" इस सूत्रसे इमनिच्प्रत्यय और "र ऋतोहंलादेलंघोः" इस सूत्रसे 'ऋ' के स्थानमें 'र' आदेश / अङ्गानां नदिमा, तेन (ष० त०)। पुष्पितः पुष्पाणि सजातानि अस्य सः, पुष्प + इतन् / स्तनश्रिया स्तनयोः श्रीः, तया, (10 त० ) / फलितः-फले सजाते अस्य सः, फल+ इतन् / सर्वत्र "तदस्य सञ्जातं तारकादिभ्य इतच्" इससे इतच्प्रत्यय / यहाँपर दो श्लोकोंमें तपमें कल्पतरुत्वका और दमयन्तीके नख आदिमें अवयवत्वका आरोप करनेसे साऽवयवरूपक, तथा अवयवी परस्पर कार्यकारणभूत कल्पतरुका और अवयव नखाऽङ्कुर आदिका भिन्न देशमें रहनेसे असङ्गति अलङ्कारसे मिश्रित है, इस प्रकार सङ्कर है / असङ्गतिका लक्षण है"कार्यकारणयोभिन्नदेशतायामसङ्गतिः।" (सा० द० 10-90 ) // 121 // कंसीकृताऽऽसीत् खलु मण्डलीन्दोः संसक्तरश्मिप्रकरा स्मरेण। तुला च नाराचलता निजव मिथोऽनुरागस्य समीकृतो वाम् // 122 // अन्वयः-(हे भैमि ! ) स्मरेण वां मिथोऽनुरागस्य समीकृती संसक्तरश्मिप्रकरा इन्दोः मण्डली कंसीकृता आसीत् / निजा नाराचलता एव तुला (कृता आसीत् ) // 122 // ____ व्याख्या-(हे भैमि !.) स्मरेण - कामदेवेन की, वां-युवयोः, मियोऽनुरागस्य अन्योऽन्यप्रणयस्य, समीकृती=समीकरणे निमित्ते, संसक्तरश्मिप्रकरा=संयोजितकिरणसमूहा, संयोजितसूत्रसमूहा च, इन्दोः= चन्द्रमसः, मण्डली-बिम्ब, कंसीकृता लोहपात्रीकृता, आसीत् अभवत् / निजा= स्वकीया, नाराचलता एव =बाणवल्ली एव, तुला-तुलादण्डः कृता आसीदिति शेषः // 122 // ___अनुवाद-(हे राजकुमारी !) कामदेवने आप दोनोंके ( नल और आपके ) परस्परके अनुरागको बराबर करने के लिए चन्द्रमण्डलको तराजूका पलड़ा बनाया, चन्द्रकिरणोंको रस्सी बनाया और अपनी बाणलताको तराजूका दण्ड बना डाला // 122 // टिप्पणी-संसक्तरश्मिप्रकरा- रश्मीनां प्रकरः (10 त०)। "किरणप्रग्रही रश्मी" इत्यमरः / संसक्तो रश्मिप्रकरो यस्यां सा ( बह० ) / कंसीकृता =अकंसः कंसो यथा सम्पद्यते तथा कृता, कंस+वि+ कृता / "कंसोऽस्त्री लोहभाजनम्" इति शाब्दिकमण्डनम् / नाराचलता=नाराच एव लता (रूपक०)।