SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ नैषधीयचरितं महाकाव्यम् . अन्वयः-एकः सुधांशुः त्वन्नयनद्वयस्य कथञ्चन तृप्तिक्षमो न स्यात्, तत् नलाऽऽस्यशीतद्युतिसद्वितीयः ( सन् ) त्वल्लोचनाऽऽसेचनकः अस्तु // 119 // व्याख्या-एक:=एकाकी, सुधांशुः= चन्द्रः, त्वन्नयनद्वयस्य भवन्नेत्रद्वितयस्य, कथञ्चन केनाऽपि प्रकारेण, तृप्तिक्षमः प्रीणनसमर्थः, न स्यात् = नो भवेत्, तत्=तस्मात्कारणात्, नलाऽऽस्यशीतद्युतिसद्वितीय:-नलास्यशीतधुतिना=नलमुखचन्द्रेण, सद्वितीयः = द्वितीययुक्तः सन्, त्वल्लोचनाऽऽसेचनक:-त्वल्लोचनयोः भवन्नयनयोः, आसेचनकः अत्यन्ततृप्तिकरः, अस्तुभवतु // 119 // . अनुवाद-एक चन्द्र आपके दोनों नेत्रोंको किसी प्रकारसे तृप्त करनेमें समर्थ नहीं होंगे, इस कारणसे वे ( चन्द्र ) नलके मुखचन्द्रके साथ दूसरे होते हुए आपके दोनों नेत्रोंको अत्यन्त तृप्ति करनेवाले हों // 119 // टिप्पणी-सुधांशुः=सुधा अंशुः यस्य सः ( बहु० ) / त्वन्नयनद्वयस्यनयनयोर्द्वयम् ( ष० त०), तव नयनद्वयं, तस्य (प० त० ) / तृप्तिक्षमः= तृप्ती क्षमः ( स० त०) / नलाऽऽस्यशीतद्युतिसद्वितीयः=नलस्य आस्यम् (प० त० ) / शीता द्युतिर्यस्य सः (बहु०) / नलाऽऽस्यम् एव शीतद्युतिः (रूपक०) / द्वितीयेन सहितः सद्वितीयः (तुल्ययोग बहु०)। नलाऽऽस्यशीतद्युतिना सद्वितीयः (तृ० त०) / त्वल्लोचनाऽऽसेचनक:=तव लोचने (ष० त०), तयोः आसेचनकः (ष० त०) / “तदासेचनकं तृप्ते ऽस्त्यन्तो यस्य दर्शनात्" इत्यमरः // 119 // अहो! तपःकल्पतरुनलीयस्त्वत्पाणिजाग्रस्फुरवाकुरश्रीः / स्वघ्युगं यस्य खल द्विपत्त्री तवाऽधरो रज्यति यत्कलम्बः // 120 // यस्ते नवः पल्लवितः कराभ्यां स्मितेन यः कोरकितस्तवाऽऽस्ते / अङ्गप्रविम्ना तय पुनितो य: स्तनश्रिया यः फलितस्तवैव // 121 // अन्वयः-(हे राजकुमारि ! ) नलीयः तपःकल्पतरुः अहो ! ( यः ) त्वत्पाणिजाऽग्रस्फुरदकुरश्रीः यस्य त्वद्भूयुगं द्विपत्त्री, तव अधरो यत्कलम्बो रज्यति // 120 // यः ते कराभ्यां नवः पल्लवितः, यः तव स्मितेन कोरकितः आस्ते / यः तव अङ्गम्रदिम्ना पुष्पितः, यः तव एव स्तनश्रिया फलितः // 121 // व्याख्या-अथ द्वाभ्यां पद्याभ्यां नलस्य तप.साफल्यमाह-अहो इत्यादिना / (हे भैमि ! ) नलीयः=नलसम्बन्धी, तपःकल्पतरुः तपस्याकल्पवृक्षः, अहो= आश्चर्यस्वरूपः / (यः कल्पतरुः), त्वत्पाणिजाऽग्रस्फुरदकुरश्री:-त्वत्पाणि
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy