________________ प्रथमः सर्गः अनल्पदग्धारिपुराऽनलोज्ज्वलेनिजप्रतापवलयं ज्वलभुवः। प्रदक्षिणीकृत्य जयाय सृष्टया रराज नीराजनया स राजघः // 10 // अन्वयः-राजघः सः अनल्पदग्धारिपुराऽनलोज्ज्वलैः निजप्रतापः ज्वलत् भुवो वलयं प्रदक्षिणीकृत्य जयाय दृष्टया नीराजनया रराज // 10 // ___व्याख्या-राजघः = शत्रुभपालघातुकः, सः नलः, अनल्पदग्धारिपुराऽनलोज्ज्वल:=बहुलभस्मीकृतशत्रुनगरवह्निप्रदीप्तः, निजप्रतापः स्वतेजोभिः, ज्वलत दीप्तं, भवःभमेः, वलयं-मण्डलं, प्रदक्षिणीकृत्य =प्रदक्षिणं विधाय, जयाय = जेतुं, सृष्टया = निर्मितया; नीराजनया = आरात्रिकेण, प्रतिपक्षराजाऽभावकरणेन वा; रराज = शुशुभे, नलस्य प्रतापो भूमण्डलव्यापकोऽभूदिति भावः // 10 // ____ अनुवादः-शत्रु राजाओं को मारनेवाले नल प्रचुर शत्रुनगरोंको जलानेवाले और अग्निके समान उज्ज्वल अपने प्रतापोंसे प्रदीप्त भूमण्डलकी प्रदक्षिणा करके जीतनेके लिए की गयीं नीराजनासे शोभित हुए // 10 // टिप्पणी-राजघः = राजानं हन्तीति, "राजघ उपसंख्यानम्" इस वार्तिकसे इस पदका निपातन हुआ है। अनल्पदग्धाऽरिपुरानलोज्ज्वलः = न अल्पानि अनल्पानि ( न० ) / अरीणां पुराणि ( 10 त० ) / अनल्पानि दग्धानि अरिपुराणि यस्ते ( बहु० ) / अनला इव उज्ज्वला: ( उपमानपू० कर्म० ) / अनल्पदग्धाऽरिपुराश्च ते अनलोज्ज्वलाः, तैः (क० धा० ) / निजप्रतापः=निजस्य प्रतापाः, तः (10 त० ) / ज्वलत् = ज्वलतीति, तत् ज्वल+लट् ( शतृ ) / प्रदक्षिणीकृत्य = अप्रदक्षिणं प्रदक्षिणं यथा संपद्यते तथा कृत्वा प्रदक्षिण+च्चि + कृ+क्त्वा (ल्यप) / जयाय = "तुमर्थाच्च भाववचनात्" इससे चतुर्थी / सृष्टयासृज+क्त+टाप्+टा। रराज = "राज दीप्तो" धातुसे लिट् + तिप् ( णल् ) / यहाँपर निजप्रतापोंसे नीराजनासृष्टिके सम्बन्ध न होनेपर भी सम्बन्धका वर्णन करनेसे अतिशयोक्ति अलङ्कार है // 10 // निवारितास्तेन महीतलेऽखिले निरीतिभावं गमितेऽतिवृष्टयः / न तत्यजुनूनमनन्यसंश्रया प्रतीपभूपालमृगीदृशां दृशः // 11 // अन्वयः-- तेन अखिले महीतले निरीतिभावं गमिते निवारिता अतिवृष्टयः अनन्य संश्रयाः ( सत्यः ) प्रतीपभूपालमृगीदृशां दृशं न तत्यजुः ननम् // 11) ध्याल्या-तेन = नलेन, अखिले समस्ते, महीतले भूतले, निरीतिभावम् = अतिवृष्टयादीतिभावराहित्य, गमिते = प्रापिते, सति निवारिताः = निराकृताः, अतिवृष्टयः = अतिवर्षाणि, अनन्यसंश्रयाः = अन्याश्रयस्थानरहिताः सत्यः, प्रतीप