SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः अण + डीप् / हृद्गता= हृत् गता ( द्वि० त०), "स्वान्तं हृन्मानसं मनः" इत्यमरः / प्राणायिता-प्राणवदाचरिता, 'प्राण' शब्दसे “कर्तुः क्यङ् सलोपश्च" इस सूत्रसे क्यङ होकर क्त+टा। आस्यगत्या=आस्यस्य गतिः, तया ( 10 त०) / एतन्मनः एतस्य मनः ( ष० त० ) / भवदेकवृत्ति एका वृत्तिर्यस्मिस्तत् (बहु० ) / भवत्याम् एकवृत्ति ( स० त० ) / 'भवती' शब्दका "सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः" इससे पुंवद्भाव / इस पद्यमें विरोधाभास, शब्दश्लेष और उपमाका सङ्कर है / / 105 // अजस्रमारोहसि दूरदीर्घा सङ्कल्पसोपानति तदीयाम् / __ श्वासान् स वर्षत्यधिकं पुनर्यद्धयानात्तव स्वन्मयतामवाप्य // 106 // अन्वयः-( हे भैमि ! ) दूरदीर्घा तदीयां सङ्कल्पसोपानततिम् ( त्वम् ) अजस्रं आरोहसि / यत् पुनः स नल: तव ध्यानात् तदा त्वन्मयताम् अवाप्य अधिकं श्वासान् वर्षति // 106 / / / व्याख्या-अथ द्वाभ्यां सङ्कल्पावस्थामाह-( हे भैमि ! ) दूरदीर्घाम् = अत्यन्तायतां, तदीयां=नलसम्बन्धिनी, सङ्कल्पसोपानतति - मनोरथारोहणपक्तिं, त्वम्, अजस्रं निरन्तरम्, आरोहसि=अधितिष्ठसि, "कथं भैमी प्राप्नुयां प्राप्तायां तस्यामहमेवं करिष्यामीत्यादिकं नलो विचारयतीति" भावः / यत् पुनः=भूयः, सः पूर्वोक्तः, नल:=नैषधः, तव=भवत्याः, ध्यानात् = चिन्तनात्, तदा-चिन्तनसमये, त्वन्मयतां = त्वदात्मकत्वम्, अवाप्य -प्राप्य, अधिकं प्रचुरं, यथा तथा, श्वासान् =निःश्वासान्, वर्षति-मुञ्चति // 106 // ___ अनुवाद-( हे भैमि ! ) नलके अत्यन्त दीर्घ मनोरथोंकी सीढ़ियोंमें आप निरन्तर चढ़ती रहती हैं। फिर वे नल आपके चिन्तनसे उस समय आपके स्वरूपको प्राप्त कर लम्बे श्वासोंको छोड़ते हैं // 106 // __टिप्पणी-दूरदीर्घा=दूरं दीर्घा, ताम् ( सुप्सुपा० ) / तदीयां = तस्येयं, ताम्, तद्+छ ( ईय )+टाप् + अम् / सङ्कल्पसोपानतति=सङ्कल्पा एव सोपानानि (रूपक०)। "सङ्कल्प: कर्म मानसम्" इति "आरोहणं स्यात्सोपानम्" इति चाऽमरः / सङ्कल्पसोपानानां ततिः, ताम् (ष० त० ) / आरोहसि आङ्+रह+ लट् +सिप् / स्वन्मयतां त्वमेव स्वरूपं यस्य स त्वन्मयः, युष्मद् (त्वद्) + मयट् (स्वार्थमें)। त्वन्मयस्य भावस्त्वन्मयता, ताम्, त्वन्मय+ तल+टाप् + अम् / आप्य=आङ्+आप+ क्त्वा ( ल्यप् ) / वर्षति= वृष+ लट् +तिप् / इस पद्यमें सङ्कल्पसोपानमें आरोहणरूप कारणता दमयन्तीमें है
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy