________________ तृतीयः सर्गः 81 व्याख्या-(हे भैमि ! ) त्वबद्धबुद्धः भवन्निबद्धमतेः, त्वामेव ध्यायत इति भावः / तस्य =नलस्य, उपावासवतिनाम् = अनुपभोगव्रतयुक्तानां, विष., यान्तरव्यावृत्तानामिति भावः / तपोभिः=उक्तोपवासव्रतरूपैः पुण्यः, अद्य% अस्मिन्दिने, त्वां भवतीं, लब्ध्वा=प्राप्य, अमृततृप्तिभाजां=पीयूषसोहित्ययुक्तानां, बहिरिन्द्रियाणां = चक्षुरादीनां, स्वं =स्वीयं, देवभूयं = देवत्वम्, इन्द्रियत्वं सुरत्वं च, चरितार्थ =कृतकार्य, सफलमिति भावः / अस्तु भवतु, अमृतपानकफलत्वाद् देवभावो भवेदिति भावः // 101 // अनुवादहे राजकूमारि ! आपका भी ध्यान करनेवाले नलके उपवास व्रत करनेवाले तथा तपस्याओंसे आज आपको प्राप्त करके अमृतपानसे मिलनेवाली तृप्तिको प्राप्त करनेवाले नेत्र आदि बाह्य इन्द्रियोंका अपना देवत्व सफल हो // 101 // टिप्पणी-त्वद्वद्धबुद्धेः बद्धा बुद्धिर्येन स बद्धबुद्धिः ( बहु० ), त्वयि बद्धबुद्धिः, तस्य ( स० त० ) / उपवासवतिनाम् = उपवासेन व्रतिनः, तेषाम् ( तृ० त०) / लब्ध्वा लभ् + क्त्वा / अमृततृप्तिभाजाम् अमृतेन तृप्तिः (तृ० त०), तां भजन्तीति अमृततृप्तिभाञ्जि, तेषाम्, अमृततृप्ति+भज् + ण्वि+आम् (उपपद०)। बहिरिन्द्रियाणां-बहिः स्थितानि इन्द्रियाणि, तेषाम् (मध्यमपद०)। देवभूयं =देवस्य भावः, "भुवो भावे" इस सूत्रसे क्यप्, देव +भू+क्यप् / "आदित्यश्चक्षुर्भूत्वाऽक्षिणी प्राविशत्" ( ऐत० 2 / 4 ) इस अतिवाक्यसे अर्थात् सूर्यने चक्षु होकर नेत्रोंमें प्रवेश किया। इसके अनुसार यह उक्ति है। परितार्थम् = चरितः अर्थः यस्य तत् ( बहु० ) / अस्तु=अस् + लोट् + तिप् // 101 // तुल्याऽऽवयोतिरभूम्मदीया बग्धा परं साऽस्य न ताप्यतेऽपि / इत्यभ्यसूर्याभव देहतापं तस्याऽतनुस्वहिरहाविधत्ते // 102 // - अन्वयः-आवयोः मूर्तिः तुल्या अभूत्, परं मदीया दग्धाः, अस्य सा न वाप्यतेऽपि, इति असूयन् इव अतनुः त्वद्विरहात् तस्य देहतापं विधत्ते // 102 // - ग्याल्या-(हे राजकुमारि ! ) आवयोः=नलस्य मम च, मूर्तिः तनुः, तुल्या=सदृशी, समानरूपा इति भावः / अभूत् जाता, परं=किन्तु, मदीया मामकीना मूर्तिः, दग्धा =भस्मीकृता, हरतृतीयनयनेनेति शेषः / अस्य-नलस्य, सा=मूर्तिः, न ताप्यतेऽपि तापम् अपि न प्राप्यते, दाहस्य का कथेति शेषः / इति-अस्मात् कारणात्, असूयन् इव=ईय॑न् इव, अतनुः अनङ्गः कामः / 13 न० त०