SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः 77 विशेन विज्ञाप्यमिदं नरेन्द्रे तस्मात्वयाऽस्मिन्समयं समीक्ष्य / आत्यन्तिकाऽसिद्धिविलम्बसिद्धयोः कार्यस्य काऽऽयंस्य शुभा विभाति ? // 66 // अन्वयः-( हे हंस ! ) तस्मात् विज्ञेन त्वया समयं समीक्ष्य इदम् अस्मिन् नरेन्द्रे विज्ञाप्यम् / कार्यस्य आत्यन्तिकाऽसिद्धिविलम्बसिद्धयोः आर्यस्य का शुभा विभाति ? // 96 // ____ व्याख्या-( हे हंस ! ) तस्मात् कारणात्, विजेन=विशेषाऽभिज्ञेन, विवेकिना इति भावः / त्वयाभवता, समयम् =अवसरं, समीक्ष्य =दृष्ट्वा, इदम् = एतत्कायं, मत्प्रार्थनारूपम् इति भावः / अस्मिन् =एतस्मिन्, नरेन्द्रे - राजनि नले, विज्ञाप्यं =विज्ञापनीयम् / समयप्रतीक्षायां विलम्बमाशङ्याहआत्यन्तिकेति। कार्यस्य कर्मणः, आत्यन्तिकाऽसिद्धिविलम्बसिद्धयोः सर्वथाऽसिद्धिदूरसिद्धयोर्मध्ये, आर्यस्य =सभ्यस्य, विदुष इति भावः / का=कतरा, विभाति =प्रतिभाति, अप्रसङ्गविज्ञापने कार्यस्य असाफल्याद्वरं विलम्बेनाऽपि कार्यसाफल्यमिति भावः / / 96 // अनुवाद-( हे हंस ) ! इस कारणसे विवेकी तुम्हें अवसर देखकर इस कार्यको राजासे निवेदन करना चाहिए / कार्यकी ऐकान्तिक असफलता और विलम्बसे सफलता. इनमेंसे विद्वान् तुम्हें कौन-सी उत्तम प्रतीत होती है // 16 // टिप्पणी-विज्ञेन-वि+ज्ञा+क+टा। समीक्ष्य = सम् + ईक्ष+क्त्वा (ल्यप् ) / नरेन्द्रे = नराणाम् इन्द्रः, तस्मिन् (ष० त० ), विज्ञाप्यं =वि+ ज्ञा+णिच् + क्त्वा ( यत् ) / आत्यन्तिकासिदिविलम्बसिद्धघोः-न सिद्धिः असिद्धिः ( न० ) / आत्यन्तिकी चाऽसौ असिद्धिः (क० धा० ), "पुंवत्कर्मधारयजातीयदेशीयेषु" इस सूत्रसे पूर्वपदका पुंवद्भाव / विलम्बेन सिद्धिः (तृ० त०.)। आत्यन्तिकाऽसिद्धिश्च विलम्बसिद्धिश्च आत्यन्तिकाऽसिदिविलम्बसिद्धी. तयोः ( द्वन्द्व० ) / आर्यस्य =ऋ+ ण्यत् + ङस् / विभाति-वि+मा+ लट्+तिप् // 96 // इत्युक्तवत्या यदलोपि लज्जा, साऽनौचिती चेतसि ननकास्तु। . स्मरस्तु साक्षी तददोषतायामुन्माध यस्तत्तववीवदत्ताम् // 17 // अन्वयः- इति उक्तवत्या ( तया) यत् लज्जा अलोपि, सा अनौचिती नः चेतसि चकास्तु, तु तददोषताया स्मरः साक्षी। यः ताम् उन्माद्य तत् अवीवदत् // 9 // व्याख्या-इति= इत्यम्, उक्तवत्या = कथितवत्या, भैम्येति शेषः, यत्
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy