________________ नंषधीयचरितं महाकाग्यम् अन्वयः-(हे हंस ! ) गतेन त्वया स राजा शुद्धान्तगतः ( सन् ) मदर्ष, न अभ्यर्थनीयः / हि तदा प्रियाऽऽस्यदाक्षिण्यबलात्कृतः अन्यवधूनिषेधः . उदयेत् // 92 // व्याख्या-अथाऽनन्तरकृत्यं सविशेषमुपदिशति श्लोकपञ्चकेन-अभ्यर्थनीय इति / ( हे हंस ! ) गतेन = यातेन, इत इति शेषः / त्वया भवता, सः= पूर्वोक्तः, राजा-नृपः, नल इत्यर्थः शुद्धान्तगतः=अन्तःपुरस्थितः सन्, मदर्थ =मत्प्रयोजनं, न अभ्यर्थनीयः=न प्रार्थनीयः / हि=यस्मात्कारणात् / तदा तस्मिन् समये, राज्ञोऽन्तःपुरस्थिताविति भावः / प्रियाऽऽस्यदाक्षिण्य बलात्कृतः-वल्लभामुखच्छन्दाऽनुवर्तिताप्रसभीकृतः, अन्य वधुनिषेधः=अपररमणीप्रतिषेधः, उदयेत् = उत्पद्येत // 92 // अनुवाद-( हे हंस ! ) यहाँसे गये हुए तुम्हें अन्तःपुर ( रनिवास ) में रहे हुए राजा ( नल ) से मेरे लिए प्रार्थना नहीं करनी चाहिए, क्योंकि उस समय प्यारी स्त्रियों के सामने उनके मनके अनुसार चलनेके विचारसे जबर्दस्तीसे किया गया दूसरी स्त्रीका निषेध उत्पन्न होगा // 92 // टिप्पणी -शुद्धान्तगतः=शुद्धाऽन्तं गतः ( द्वि० त०), "शुद्धान्तश्चावरोधश्च" इत्यमरः / मदर्थ मह्यम् इदं यथा तथा (च० त०) / अभ्यर्थनीयः= अभि + अर्थ + णिच् +अनीयर् / प्रियाऽऽस्यदाक्षिण्यबलात्कृतः= प्रियाणाम् आस्यानि (10 त० ), तेषां दाक्षिण्यं (ष० त०), तेन बलात्कृतः (तृ० त०)। अन्यवधूनिषेधः =अन्या चाऽसौ वधूः (क० धा०), तस्या निषेधः (ष० त०)। उदयेत् =उद् +इ+विधिलिङ् + ति // 92 / / शुद्धान्तसम्भोगनितान्ततृप्ते न नंषधे कार्यमिदं निगाधम् / - अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा // 3 // अन्वयः-( हे हंस ) शुद्धान्तसम्भोगनितान्ततृप्ते नैषधे इदं कार्य न निगाद्यम् / अपां तृप्ताय स्वादुः सुगन्धिः तुषारा वारिधारा न स्वदते हि // 13 // व्याख्या-( हे हंस ) शुद्धान्तसम्भोगनितान्ततृप्ते =अन्तःपुरस्त्रीरमणाsतिशयसन्तुष्टे, नैषधे-नले, इदम् एतत, कार्य-कर्म, मत्प्रार्थनारूपमिति शेषः / न निगाद्यं =नो वक्तव्यम् / तथा हि-अपां तृप्ताय =जलेन सन्तुष्टाय जनाय, स्वादुः=मधुरा, सुगन्धिः शोभनगन्धा, कर्पूरादिनेति शेषः / तुषारा =शीतला, वारिधारा=जलधारा, न स्वदते हि-नो रोचते हि // 93 // अनुवाद-( हे हंस ! ) अन्तःपुरकी स्त्रीके समागमसे अतिशय तृप्त नलको