________________ तृतीयः सर्गा तत् = तस्मात्कारणात्, आनृण्यार्थं देयपदार्थाऽभावादिति भावः / मां- भैमी, त्वदृणेषु भवत्पर्युदञ्चनेषु विषये / अशोद्धं = न अपाकर्तुम्, अमुद्रदारिद्रयसमुद्रमग्नाम् - अपरिमितदैन्यसागरबुडितां, विधेहि-कुरु, नलसङ्घट्टनेन मामृणग्रस्तां कुविति भावः / / 86 // अनुवाद--(हे हंस !) प्राण देनेवाले तुम्हारे विषय में अपने प्राणोंको देकर शुद्ध ( अनृण ) हूँगी, परन्तु प्राणोंसे अधिक ( नल ) को देनेवाले तुम्हारे विषयमें मैं किस पदार्थसे शुद्ध ( अनृण. ) हूँगी। इस कारणसे मुझे तुम्हारे ऋणोंमें शुद्ध ( अनृण ) न करने के लिए अपरिमित दारिद्रयरूप समुद्रमें मग्न कर दो।। 86 // टिप्पणी-जीवदे=जीव+दा+क ( उपपद )+ङि / आत्मजीवम् = आत्मनो जीवः, तम् (10 त० ) / दत्त्वा=दा+क्त्वा / शुद्धयामि=शुध् + लट्+मिप् / त्वदृणेषु तव ऋणानि, तेषु ( ष० त० ) अशोर्द्धन शोधुम् ( नञ्० ) / अमुद्रदारिद्रयसमुद्रमग्नाम् = अविद्यमाना मुद्रा ( मर्यादा ) यस्य सः ( नब्बहु० ), दारिद्रयम् एव समुद्रः ( रूपक० ) / अमुद्रश्वाऽसौ दारिद्रयसमुद्रः ( क० धा० ), तस्मिन् मग्ना, ताम् (स० त०) / विधेहि वि+धा+ लोट् + सिप् / इस पद्यमें रूपक अलङ्कार है / / 86 // क्रीणीष्व मज्जीवितमेव पण्यमन्यत्र चेद्वस्तु तदस्तु पुण्यम् / / जीवेशदातर्यदि ते न दातुं यशोऽपि तावत्प्रभवामि गातुम् // 87 // अन्वयः-हे जीवेशदातः ! मज्जीवितम् एव पण्यं क्रीणीष्व, अन्यत् वस्तु न चेत् ( तहिं ) पुण्यम् अस्तु ते दातुं न प्रभवामि (चेत् ) तावत् यशः अपि गातुं प्रभवामि / / 87 / / __ व्याख्या- हे जीवेशदातः ! = हे प्राणेश्वरः ! मज्जीवितम् एव मज्जी. वनम् एव, पण्यं = क्रेयं वस्तु, क्रीणीष्व =जीवेशमूल्यरूपेण विनिमयं कुरु / अन्यत् = अपरम्, एतन्मूल्याऽनुरूपं, वस्तु=पदार्थः, न चेत् =न भवेद्यदि, तर्हि, पुण्यं =धर्मः, अस्तु भवतु, ते तुभ्यं, दातुं =वितरीतुं, न प्रभवामिन शक्नोमि यदि, तावत् - हि, यशः अपि कीर्तिम् अपि, गातुं - गानं कर्तुं, प्रभवामि = शक्नोमि, प्रसिद्धिपुण्यार्थमेवोपकुरुष्वेत्यर्थः / / 87 // __ अनुवाद-हे प्राणेश्वर ( नल ) को देनेवाले ! मेरे जीवनरूप क्रेय वस्तुको खरीद लो और वस्तु न होगी तो पुण्य ही हो / तुम्हें देने के लिए समर्थ नहीं हूँ तो तुम्हारे यशको तो गानेके लिए समर्थ हूंगी // 87 // .