________________ 70 नैषधीयचरितं महाकाव्यम् / टिप्पणी-जीवेशदातः=जीवस्य ईशः (10 त०), तस्य दाता, तत्सम्बुद्धी (10 त० ) / मज्जीवितं मम जीवितं, तत् (10 त० ), क्रीणीष्व="डुक्रीम द्रव्यविनिमये" इस धातुके लोट्के थास्का रूप / दातुं दा+तुमुन् / प्रभवामिप्र+भू+ लट् +मिप् // 8 // वराटिकोपक्रिययाऽपि लभ्यान्नेभ्याः कृतज्ञानथवाऽऽद्रियन्ते / प्राणः पर्णः स्वं निपुर्ण भणन्तः क्रोणन्ति तानेव तु हन्त ! सन्तः // 8 // - अन्वयः-वराटिकोपक्रियया अपि लभ्यान् कृतज्ञान् इभ्याः न आद्रियन्ते / व्याल्या-( हे हंस ! ) वराटिकोपक्रियया अपि कपदिकोपकारेण अपि, कपर्दिकादानेन अपि इति भावः / लभ्यान्सुलभान्, कृतज्ञान् =उपकारज्ञान् / तावदेव बहु मन्यमानानिति भावः / इभ्या:=धनिकाः, न आद्रियन्ते=न सत्कुर्वन्ति, न उपकुर्वन्तीति भावः / एतद्वपरीत्येन, सन्तस्तु = सज्जनास्तु, विवेकिनस्तु इति भावः / स्वम् =आत्मानं, निपुणं = कुशलं, भणन्तः=कथयन्तः, "एते वयं त्वदधीना" इति साधु वदन्त इति भावः / तान् एव = कृतज्ञान एव, प्राणः = असुभिः एव, पणः=मूल्यः, क्रीणन्ति=विनिमयं कुर्वन्ति, आत्मसात्कुर्वन्ति, किमुत धनैरिति भावः / अतस्त्वयाऽपि सज्जनेन कृतज्ञाऽहमपकर्तव्येति भावः / हन्त =हर्षद्योतकमव्ययम् // 88 // अनुवाद -( हे हंस ! ) कोड़ी देकर भी पाये जा सकनेवाले कृतज्ञों( अहसानमन्दों ) को धनी लोग आदर ( उपकार ) नहीं करते हैं / सज्जनलोग तो "हम आपके अधीन हैं" ऐसा कहते हुए उन्हीं कृतज्ञोंको प्राणरूप मूल्योंसे खरीद लेते हैं / / 88 // टिप्पणी-वराटिकोपक्रियया=वराटिकाया उपक्रिया, तथा (ष० त०)। लभ्यान्-लभ् +यत् + शस् / कृतज्ञान् =कृतं जानन्तीति कृतज्ञाः, तान् / कृत +ज्ञा+क ( उपपद० ) + शस् / इभ्याः =इभम् अर्हन्तीति, 'इभ" शब्दसे "दण्डादिभ्यो यः" इस सत्रसे य प्रत्यय / "इभ्य आढयो धनी स्वामी"त्यमरः। आद्रियन्ते-आङ्+दृङ्+लट् +झ / सन्तः=अस्+लट् ( शतृ )+ जस् / भणन्तः भण+ लट् (शतृ)+जस् / पणःकरणमें तृतीया / क्रीणन्ति=क्री + लट् +झि / इस पद्यमें रूपक अलङ्कार है / / 88 //