________________ तृतीयः सर्गः (ष० त०) / अशक्यशङ्को व्यभिचारहेतुर्यस्याः सा (बहु०), यह पद "वाणी". का विशेषण है // 78 // अनैषधायेव जुहोति कि मां तातः कृशानी न शरीरशेषाम् / / - ईष्टे तनूजन्मतनोस्तथाऽपि मत्प्राणनाथस्तु नलः स एव // 76 // अन्वयः-तातः माम् अनैषधाय एव जुहोति ? (तदा) शरीरशेषां (माम्) (तत्रापि ) कृशानी न जुहोति किम् ? स तनूजन्मतनोः ईष्टे, मत्प्राणनाथस्तु नल एव // 79 // व्याख्या-अथ "पितुर्नियोगेने"ति हंसप्रतिपादितमाशङ्कां निरस्यतिअनंषधार्यवेति / तातः मम जनकः, मां-पुत्रीम्, अनंषधाय एव = नलभिन्नाय एव, अनलाय सम्प्रदानभूताय एव, जुहोति-ददाति ? ( काकुः ), ( तदा ) शरीरशेषां देहमात्राऽवशिष्टां, मृतामित्यर्थः तादृशीं मां, न जुहोति किम् ? =हवनं न करोति किम् ? तदङ्गीकार्यमेवेति भावः / (तः ) सः= जनकः, तनूजन्मतनोः=आत्मजाशरीरस्य, ईष्टे= ईशः ( स्वामी ), भवतीति भावः / परं, मत्प्राणनाथस्तुमज्जीवनस्वामी तु, नल एव नैषध एव, मत्प्राणानामजनकत्वात् न जनकः, मम शरीरमात्रं पित्रधीनं, जीवनं तु नलाऽधीनमिति भावः / अतो मयि अविश्वासं मां कार्षीरिति तात्पर्यम् // 79 // __ अनुवाद-पिताजी मुझे अनेषध (नलसे भिन्न व्यक्ति, अनल ) को ही देते हैं ? तब तो देहमात्रसे अवशिष्ट मरी हुई मुझको अग्निमें हवन नहीं करते हैं क्या ? क्योंकि वे ( मेरे पिता ) अपनी पुत्रीके शरीरके स्वामी हैं, परन्तु मेरे प्राणके स्वामी तो नल ही हैं // 79 // ___टिप्पणी-तातः="तातस्तु जनक: पिता" इत्यमरः / अनैषधायन नंषधः, तस्म, तदन्य अर्थमें नसमास / जुहोति="हु दानादानयोः" इस धातुसे लट् + तिम् / शरीरशेषां = शरीरम् एव शेषो यस्याः सा, ताम् (बहु०)। कृशानी= "कृशानुः पावकोऽनलः" इत्यमरः / तनूजन्मतनोः= तन्वा जन्म यस्याः सा तनूजन्मा ( बहु० ), तस्याः तनुः, तस्याः ( ष० त०), "अधीगर्थदयेषां कर्मणि" इस सूत्रसे 'ईश' धातुके योगमें षष्ठी। ईष्टे = "ईश ऐश्वर्ये' धातुसे लट् + त / मत्प्राणनाथः मम प्राणाः (10 त०), तेषां नाथः (ष० त० ) // 79 // तदेकदासीत्वपदादुदने मदीप्सिते साधु विधित्सुता ते। . अहेलिना कि नलिनी विधत्ते सुधाऽऽकरेणाऽपि सुधाकरेण ? // 8 //