SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ मेषधीयचरितं महाकाव्यम् इतीरिता पत्त्ररथेन तेन हीणा च हृष्टा च बमाण भैमी। "चेतो नलामयते मदीयं, नाऽन्यत्र कुत्रापि च साऽभिलाषम्" // 67 // अन्वयः--तेन पत्त्ररथेन इति ईरिता भैमी ह्रीणा हृष्टा च ( सती) बभाण-"मदीयं चेतो लङ्कां न अयते ( पक्षान्तरे श्लेषेण-मदीयं चेतो नलं. कामयते ) / अन्यत्र कुत्र अपि साऽभिलाषं न" / / 67 / / व्याख्या-तेन = पूर्वोक्तेन, पत्त्ररथेन=हंसेन, इति= इत्थम्, ईरिता= उक्ता, भैमी=दमयन्ती, ह्रीणा=लज्जिता, स्वाऽभिप्रायकथनसङ्कोचादिति शेषः / हृष्टा च-प्रसन्ना च, उपायलाभादिति शेषः / बभाण-जगाद / मदीयंमामकीनं, चेतः=चित्तं, लङ्कां= सिंहलद्वीपपुरी, न अयते=नो गच्छति / ( पक्षान्तरे श्लेषेण-) किन्तु नलं नैषधं, कामयते-इच्छति / अन्यत्र= अन्यस्मिन्, कुत्र अपि कस्मिन् अपि, वस्तुनीति शेषः / साऽभिलाषम् =इच्छुकं न=नो वर्तते // 67 // ____ अनुवाद-उस हंसके ऐसा कहने पर दमयन्तीने लज्जित और प्रसन्न होकर कहा- "मेरा चित्त लङ्का नहीं जाता है" ( पक्षान्तरमें श्लेषसे ) "मेरा चित्त नलको चाहता है, और किसी भी वस्तुमें अभिलाष नहीं करता है / 67 // टिप्पणी-पत्त्ररथेन=पत्त्रं ( पक्षः ) रथो यस्य सः, तेन ( बहु० ), "पतत्पत्ररथाऽण्डजाः" इत्यमरः / ह्रीणा-ह्री+क्त+टाप, "नुदविदोन्दत्रा. घ्राह्रीभ्योऽन्यतरस्याम्" इस सूत्रसे निष्ठा तकारके स्थानमें विकल्पसे नकार / हृष्टा-हृष + क्त+टाप् / बभाण=भण+लिट् + तिप् (णल्)। अयते=अय +लट् +त / कामयते-कम् +णि+लट् + त / साऽभिलाषम् =अभिला. षेण सहितम् (तुल्ययोगबहु०) / इस पद्यमें श्लेष अलङ्कार है // 67 // विचिन्त्य बालाजनशीलशलं लज्जानदीमज्जवनङ्गानागम् / जगाद विस्पष्टममाषमाणामेनां स चक्राङ्गपतङ्गशकः // 68 // अन्वयः-विस्पष्टम् अभाषमाणाम् एनां स चक्राङ्गपतङ्गशको बालाजनशीलशलं लज्जानदीमज्जदनङ्गनागं विचिन्त्य जगाद / / 68 // व्याख्या-विस्पष्टम् सुव्यक्तम्, अभाषमाणाम् =न वदन्ती, श्लेषोक्त्या सन्दिग्धमेव भाषमाणामिति भावः / एना=दमयन्ती, सः पूर्वोक्तः, चक्राङ्ग. पतङ्गशक्रः = हंसपक्षिश्रेष्ठः, बालाजनशीलशैलं-मुग्धाऽङ्गनास्वभावपर्वत, लज्जा. नदीमज्जदनानागंप्रपासरिडकामगजं, विचिन्त्य=विचार्य, जगाद=
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy