________________ नैषधीयचरितं महाकाव्यम् स्यादभियुक्तेऽग्रतः कृते' इत्यमरः / आत्मनि="आत्मा यत्नो धृतिर्बुद्धिः स्वभावो ब्रह्म वर्म च" इत्यमरः / आदर्श ( दर्पण ) की दर्शनीयतामें प्रमाण है"रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् / गुरुमग्नि तथा सूर्य प्रातः पश्येत्सदा बुधः" // 56 // अनार्यमप्याचरितं कुमार्या भवान्मम क्षाम्यतु सौम्य ! तावत् / हंसोऽपि देवांशतयाऽसि बन्धः श्रीवत्सलक्ष्मेव हि मत्स्यमतिः // 57 // अन्वयः-हे सौम्य ! भवान् कुमार्या मम अनार्यम् अपि आचरितं तावत् क्षाम्यतु / हंसोऽपि ( त्वम् ) देवांऽशतया मत्स्यमूर्तिः श्रीवत्सलक्ष्मा इव वन्द्यः असि // 57 // ___व्याख्या-हे सौम्य! हे सज्जन ! भवान्, कुमार्याः=शिशोः, मम, अनार्यम् अपि = अनुचितम् अपि, आचरितं आचरणं, त्वद्ग्रहणव्यवसायरूपमिति भावः / तावत् =प्रथम, क्षाम्यतु = सहताम्, हंसस्य वन्द्यतां प्रतिपादयति-हंसोऽपि मरालोऽपि, तियंगपि, त्वमिति शेषः, देवांऽशतया सुरांऽशत्वेन, मत्स्यमूर्तिः=मीनाऽवतारधारी, श्रीवत्सलक्ष्मा इव= विष्णुः इव, वन्द्यः=अभिवादनीयः, असि // 57 // ... अनुवाद-हे सज्जन ! आप, कुमारी मेरे अनुचित आचरणको सहें। हंस होते हुए भी आप देवताके अंश होनेसे मत्स्यमूर्ति भगवान् विष्णुके समान अभिवादनके योग्य हैं // 57 / / / टिप्पणी-हे सौम्य-सोमो देवताऽस्येति सौम्यः, तत्सम्बुद्धी "सोमाट्टयण" इस सूत्रसे सोम शब्दसे टयण् प्रत्यय "सौम्यं तु सुन्दरे सोमदेवते" इत्यमरः / अनार्यम् =न आर्यम् (नब्०) / क्षाम्यतु-क्षमूष् + लो+तिप् / देवांऽशतया देवस्य अंशः (10 त० ), तस्य भावः देवांशता, तया, देवांश + तल् + टाप् / मत्स्य मूति: मत्स्यस्य इव मूतिर्यस्य सः ( व्यधिकरणबहु० ) / श्रीवत्सलक्ष्मा श्रीवत्सो लक्ष्म यस्य सः ( बहु०)॥ 57 // मन्त्रीतिमाधिससि का ? स्वदीक्षामुदं मदक्ष्णोरपि याऽतिशेताम् / मिनाऽमृतलोचनसेचनाता पृयक्किमिन्दुः सृजति प्रजानाम् ? // 58 // अन्धयः-(हे हंस !) कां मत्प्रीतिम् आधित्ससि ? या मदक्ष्णोः त्वदीक्षामुदम् अतिशेताम् / इन्दु प्रजानां निजाऽमृतः लोचनसेचनात् पृषक् किंवा सृजति ? // 58 //