________________ तृतीयः सर्गः जलकी तरङ्गसे उदासीन आप किनारेमें रहे हुए ( व्यक्ति ) के समान पीडित हो गये हैं // 55 // टिप्पणी-चापले-चपल+अण / वत्सिमक्त्सलत्वं वत्सस्य भावो वत्सिमा, वत्स+इमनिच / वत्सलस्य भावो वत्सलत्वम् / वत्सल+त्व / वत्सिम्नि वत्सलत्वं, तत् (स० त०), "धिक' के योगमें द्वितीया / यत्प्रेरणात्यस्य प्रेरणं, तस्मात् (10 त०) / उत्तरलीभवन्त्या= उत्तरल+वि+ भू + लट् + शतृ + ङीप् +टा। समीरसङ्गात् =समीरस्य सङ्गः, तस्मात् (प० त० ), हेतुमें पञ्चमी / नीरभङ्गया=नीरस्य भङ्गी, तया (ष. त०)। तटस्थ:-तट + स्था+कः / उपद्रुतः - उप+2+ क्तः / इस पद्यमें उपमा अलङ्कार है // 55 // आदर्शतां स्वच्छतया प्रयासि, सतां स तावत्खलु दर्शनीयः। आगः पुरस्कुर्वति सागसं मां यस्यात्मनीदं प्रतिबिम्बितं ते // 56 // अन्वयः-स्वच्छतया आदर्शतां प्रयासि / यस्य ते सागसं मां पुरस्कुर्वति आत्मनि इदम् आगः प्रतिबिम्बितम् / स सतां तावत् दर्शनीयः / / 56 // __ व्याल्या-( हे हंस ! ) स्वच्छतया=निर्मलत्वेन, 'आदर्शतां= दर्पणत्वं, प्रयासि=प्राप्नोषि / यस्य = स्वच्छस्य, ते तव, साऽऽगसं-साऽपराधां, मांभैमी, पुरस्कुर्वति = पूजयति, "किमीप्सितं विदधेऽभिधे हिं" ( 3-52 ), इत्यादि कथनेनेति भावः, अग्रे कुर्वाणे च, आत्मनि=बुद्धी, स्वरूपे च, इदं - मदीयम्, भवद्ग्रहणोद्योगरूपमिति भावः / आगः=अपराधः, प्रतिबिम्बितं= प्रतिफलितं, पुरोवतिधर्माणामात्मनि सङ्क्रमणादादर्शोऽसीत्यर्थः / ततः किम् ? इत्यत आह-स: आदर्शः, सतां सज्जनानां, तावत् = प्रथम, दर्शनीयः= अवलोकनीयः, पूज्यश्च / / 56 // अनुवाद-(हे हंस ! ) तुम निर्मल होनेसे दर्पणके भावको प्राप्त कर रहे हो, अपराधिनी मुझे सत्कार करनेसे अथवा सामने रखनेसे स्वच्छ तुम्हारी बुद्धि वा स्वरूपमें मेरा अपराध प्रतिबिम्बित हुआ है, वैसा आदर्श सज्जनोंको दर्शनीय और पूजनीय है // 56 // टिप्पणी-स्वच्छतया=स्वच्छ + तल् + टाप् +टा / आदर्शताम् - आदर्श + तल + टाप+अम् / प्रयासि-प्र+या+लट् + सिप / सागसं= आगसा सहिता साऽऽगाः, ताम् ( तुल्ययोगबहु० ) / पुरस्कुर्वति-पुरस्करोतीति पुरस्कुर्वन्, तस्मिन्, पुरस + + लट् ( शतृ )+ङि / "पुरस्कृतः पूजिते