________________ नंषधीयचरितं महाकाव्यम् अन्वयः-किञ्चित्तिरश्चीनविलोलमौलि: वक्त्रेण तृणीकृतेन्दुः सा पृथिवीन्द्र. पुत्री मुहूर्त मनसा वाच्यं विचिन्त्य पतत्रिणं जगाद / / 54 // ____ व्याख्या-किञ्चित्तिरश्चीनविलोलमौलि:=स्तोकतिर्यक्कृतचञ्चलकेशबन्धा वक्त्रेण = मुखेन, तृणीकृतेन्दुः= अधःकृतचन्द्रा, सा-पूर्वोक्ता, पृथिवीन्द्रपुत्री= राजकुमारी, दमयन्ती, मुहूर्त =कश्चित्कालं, मनसा = चित्तेन, वाच्यं = वक्तव्यं वचनं, विचिन्त्य = विचार्य, पतत्रिणं =पक्षिणं हंस, जगादउवाच // 54 // अनुवाद-चञ्चल केशबन्धको कुछ तिरछा करती हुई और मुखसे चन्द्रमाको मात करती हुई उस राजकुमारी ( दमयन्ती ) ने कुछ समय तक मनसे वक्तव्य वचनका विचार कर हंसको कहा / / 54 // टिप्पणी-किञ्चित्तिरश्चीनविलोलमौलि:=किञ्चित्तिरश्वीना विलोला मोलियस्याः सा ( बहु ), "चूडा किरीटं केशाश्च संयता मौलयस्त्रयः" इत्यमरः / तृणीकृतेन्दुः = अतृणं तृणं यथा सम्पद्यते तथा कृतस्तृणीकृतः, तृण+ च्चि+ + क्तः / तृणीकृत इन्दुः यया सा ( बहु० ) / पृथिवीन्द्रपुत्री-पृथिव्या संयोगे'' इससे द्वितीया / जगाद = गद्+लिट् + तिप् / इस पद्यमें उपमा अलङ्कार है // 54 // धिक चापले वत्सिमवत्सलत्वं, यत्प्रेरणादुत्तरलीभवन्त्या। समीरसङ्गादिव नौरभङ्गया मया तटस्थस्त्वमुपद्वतोऽसि // 55 // अन्वयः-चापले वसिमवत्सलत्वं धिक् ! यत्प्रेरणात् उत्तरलीभवन्त्या मया समीरसङ्गात् ( उत्तरलीभवन्त्या ) नीरभङ्गया इव तटस्थः त्वम् उपद्रुतः असि // 55 // . व्याख्या=चापले चपलकर्मणि, वत्सिमवत्सलत्वं = बाल्यप्रयुक्तचापलमित्यर्थः, धिक्, यत्प्रेरणात् चापलप्रेरणात्, उत्तरलीभवन्या=चपलायमानया, मयाभैम्या, समीरसङ्गात् =वाताऽऽघातात्, उत्तरलीभवन्त्या= चपलायमानया, नीरभङ्गया इव =जलतरगेण इव, तटस्थः=उदासीन:, तीरं गतश्च, त्वं = हंसः, उपद्रुतः = पीडितः, असि=वर्तसे, मदीयं बालचापलं त्वया सोढव्य मिति भावः // 55 / / अनुवाद-चञ्चल कर्ममें बालभावसे होनेवाली आसक्तिको धिक्कार है, जिसकी प्रेरणासे पचल होनेवाली मुझसे वायुके मापातसे पचल होनेवाली