SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ 34 नैषधीयचरितं महाकाव्यम् अवारितद्वारतया तिरश्चामन्तःपुरे तस्य निविश्य राज्ञः / गतेषु रम्येऽवधिक विशेषमध्यापयामः परमाणुमध्याः // 41 // अन्वयः-तिरश्वाम् अवारितद्वारतया तस्य राज्ञः अन्तःपुरे निविश्य परमाणुमध्याः रम्येषु गतेषु अधिकं विशेषम् अध्यापयामः / / 41 // व्याख्या- अथ नलस्याऽन्तःपुरे हंसः स्वगति द्योतयति-अवारितेति / तिरश्चाम् = पक्षिणाम्, अवारितद्वारतया = अनिवारितप्रतीहारतया, अनिषिद्धप्रवेशत्वेनेति भावः / तस्य = पूर्वोक्तस्य, राज्ञः= नृपस्य, अन्तःपुरे=अवरोधे, निविश्य प्रविश्य, परमाणुमध्याः=अतिकृशोदरी:, नलाङ्गना इति भावः / रम्येषु मनोहरेषु, गतेषुगमनेषु विषये, अधिकम् =अपूर्व, विशेष =भेदम्, अध्यापयामः= अभ्यासयामः, वयमिति शेषः // 41 // अनुवाद-पक्षियोंके प्रवेश में रुकावट न होने से राजा नलके अन्तःपुरमें प्रवेश कर परमाणुसदृश (सूक्ष्म कमरवाली उनकी स्त्रियोंको मनोहर गतियों में अपूर्व भेदको हम सिखाते हैं / / 41 // टिप्पणी-अवारितद्वारतया=न वारितम् अवारितम् ( न० ) / अवारितं द्वारं येषां ते अवारितद्वाराः ( बहु० ), तेषां भावः तत्ता, तया, अवारित. द्वार+तल्+टाप्+टा / निविश्य=नि + विश्+क्त्वा ( ल्यप् ) / परमाणु. मध्याः=परमश्चाऽसो अणुः ( क० धा० ), परमाणुरिव मध्यो यासां ताः (बहु०)। पदार्थोंमें सबसे सूक्ष्म पदार्थ परमाणु है, यह नैयायिकोंका सिद्धान्त है / यहां सूक्ष्म अर्थमें तात्पर्य है। अध्यापयामः अधि-उपसर्गपूर्वक "इङ अध्ययने" धातुसे णिच् प्रत्यय होकर लट् + मस् / दुहादिगणमें पढ़े जानेसे द्विकर्मक // 41 // पीयूषधाराऽनधराभिरन्तस्तासां रसोदन्वति मज्जयामः / रम्भादिसौभाग्यरहःकथाभिः काव्येन काव्यं सृजताऽऽहताभिः // 42 अन्वयः-पीयूषधाराऽनधराभिः काव्यं सृजता काव्येन आदृताभिः रम्भाऽऽ दिसौभाग्यरहःकथाभिः तासाम् अन्तः रसोदन्वति मज्जयामः / / 42 // व्याल्या-(हे राजकुमारि !) पीयूषधाराऽनधराभिः=अमृतधाराः न्यूनाभिः, अमृतसमानाभिरित्यर्थः। काव्यं प्रबन्धविशेषं, सृजता= रचयित्रा काव्येन-शुक्रण, आदृताभिः =मानिताभिः, काव्ये प्रतिपादिताभिरिति भावः रम्भादिसौभाग्यरहःकथाभिः= रम्भाऽऽदिवाल्लभ्यरहस्यवर्णनाभिः, तासां नलाऽन्तःपुरस्त्रीणाम, अन्तः=अन्तःकरणं, रसोदन्वति-शृङ्गाररससमुद्रे मज्जयामः-अवगाहयामः // 42 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy