________________ नैषधीयचरितं महाकाव्यम् विधेय है / विधाय=वि+धा+क्त्वा (ल्यप्)। अनुरक्ता=अनु+रञ्ज+ क्त+टाप् / अनाप्य=न आप्य (नञ्०), 'आप्य' यहाँ पर आङ्-उपसर्गपूर्वक "आपल व्याप्तौ" धातुसे क्त्वा उसके स्थानमें ल्यप् / तन्नामगन्धात्=तस्य नाम (ष० त० ) तस्य गन्धः, तस्मात् ( 10 त० ), हेतुमें पञ्चमी / “गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः" इति विश्वः / भेजे-भज+लिट् +त // 26 // स्वर्लोकमस्माभिरितः प्रयातः केलीषु तद्गानगुणाग्निपीय / हा ! हेति गायन्यदशोचि तेन नाम्नव हा हा ! हरिगायनोऽभूत् // 27 // अन्वयः-केलीषु तद्गानगुणान् निपीय इतः स्वर्लोक प्रयातः अस्माभिः हरिगायनः गायन् यत् "हा ! हा" इति अशोचि, ततः नाम्ना हाहा अभुत् // 27 // व्याख्या केलीषु =विनोदगोष्ठीषु, तद्गानगुणान्नलगीतमाधुर्यादिगुणान्, निपीय=नितरां पीत्वा, सादरं श्रत्वेति भावः / इतः- अस्माल्लोकात्, भूलोकादित्यर्थः / स्वर्लोकं = सुरलोकं प्रयात:=प्राप्तः, अस्माभिः=हंसः ( कर्तुभिः ), हरिगायनः = इन्द्रगायकः, गायन् = गानं कुर्वन् सन्, यत् = यस्मात् कारणत्, हा हा इति अशोचि-हा हा इति शोकविषयीकृतः, नलगानाऽपेक्षया निकृष्टगानत्वारिति शेषः / ततः तस्मात्कारणात्, नाम्ना=सज्ञया, हाहाहाहा इत्याकारकः, अभूत=अभवत् / / 27 // अनुवाद-विनोदगोष्ठियोंमें नलके गानके गुणोंको आदरपूर्वक सुनकर भूलोकसे स्वर्ग में गये हये हम लोगोंने गाते हुए इन्द्रके गवैयेके प्रति 'हा ! हा !!' कहकर जो शोक किया उससे वे. 'हाहा' नामवाले हो गये // 27 // ___ टिप्पणी-तद्गानगुणान् =तस्य गानं (ष० त०), "गीत गानमिमे समे" इत्यमरः / तद्गानस्य गुणाः, तान् (10 त० ), निपीय = नि+पी+क्त्वा ( ल्यप् ) / हरिगायनः=गायतीति गायनः "गै शब्दे' धातुसे "ण्युट च" इस सूत्रसे ण्युट् प्रत्यय / हरेर्गायनः (10 त० ) / गायन् = गायतीति, गै+लट ( शतृ )+सु / अशोचि= "शुच शोके" इस धातुसे लुङ् ( कर्ममें )+ त / नाम्ना="प्रकृत्यादिभ्य उपसङ्ख्यानम्" इससे तृतीया। हाहा="हाहा हूहूश्चैवमाद्या गन्धर्वास्त्रिदिवौकसाम्" इत्यमरः / इस पद्यमें "हा हा" पदका निर्वचन होनेसे पीयूषवर्ष जयदेयके चन्द्रालोकके अनुसार "निरुक्त" नामका काव्यलक्षण है जैसे कि निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथाऽनृतम् / "