________________ 14 नैषधीयचरितं महाकाव्यम् . अन्वयः-स्वर्गापगाहेममृणालिनीनां नालामृणालाऽग्रभुजः अन्नाऽनुरूपां तनुरूपऋद्धि भजामः, हि कार्य निदानात् गुणान् अधीते // 17 // ___व्याख्या-( हे राजकुमारि ! ) स्वर्गाऽऽपगाहेममृणालिनीनां मन्दाकिनीसुवर्णकमलिनीनां, नालामृणालाऽग्रभुजः=काण्डबिसाग्रभोजिनः, वयमिति शेषः / अन्नाऽनुरूपाम् =आहारसदृशीं, तनुरूपऋद्धि=शरीरवर्णसमृद्धि, भजामः=प्राप्ताः स्म इति भावः / उक्तमर्थमर्थान्तरन्यासेन समर्थयतेकार्यमिति / हि= यस्मात् कारणात्, कार्य=जन्यं द्रव्यं, निदानात् = उपादानकारणात्, गुणान् = रूपादिविशेषगुणान्, अधीते-प्राप्नोतीति भावः // 17 // - अनुवाद-स्वर्गकी नदी (मन्दाकिनी) की सुवर्णकमलिनियोंके काण्ड और मृणालके अग्रभागको खानेवाले हमलोग आहारके समान शरीरके वर्णकी समृद्धिको प्राप्त किये हुए हैं, क्योंकि कार्य, कारणसे रूप आदि विशेष गुणोंको प्राप्त करता है // 17 // टिप्पणी-स्वर्गाऽऽपगाहेममृणालिनीनां स्वर्गे अपगा ( स० त० ), हेम्नो मृणालिन्यः (10 त०), स्वर्गापगाया हेममृणालिन्यः, तासाम् (10 त० ) / नालामृणालाऽग्रभुजः-मृणालानामग्राणि (ष० त०)। नालाश्च मृणालाऽग्राणि च ( द्वन्द्वः ), तानि भुञ्जत इति ( नालामृणालाऽग्र+भुज् + क्विप्+जस् ) / अन्नाऽनुरूपाम् = अन्नस्य अनुरूपा, ताम् (ष० त० ) / तनुरूपऋद्धि = रूपस्य ऋद्धिः ( ष० त० ), 'ऋत्यकः" इससे प्रकृतिभाव होनेसे अंर्गुण नहीं हुआ। तनो रूपऋद्धिः, ताम् ( ष० त० ) / निदानात्="आख्यातोपयोगे" इस सूत्रसे अपादानसंज्ञा होनेसे पञ्चमी। इस पद्यमें सामान्यसे विशेषका समर्थन होनेसे अर्थान्तरन्यास अलङ्कार है // 17 // धातुनियोगादिह नैषधीयं लीलासरः सेवितुमागतेषु / हैमेषु हंसेष्वहमेक एव भ्रमामि भूलोकविलोकनोत्कः // 18 // अन्वयः-धातुः नियोगात् इह नैषधीयं लीलासरः सेवितुम् आगतेषु हैमेषु हंसेषु अहम् एक एव भूलोकविलोकनोत्कः ( सन् ) भ्रमामि / / 18 // ___ व्याख्या-( हे राजकुमारि ! ) धातुः- ब्रह्मणः, नियोगात्=आदेशाद, इह =अस्मिन्, भूलोक इति भावः / नैषधीयं=नलीयं, लीलासरः=विलासकासारं, से वितुम् = आलोडयितुम्, विहर्तुमिति भावः / आगतेषु =आयातेषु, हैमेषु सौवर्णेषु, हंसेषु - चक्राङ्गेषु, अहम्, एक एव = एकाकी एव, भूलोकविलोकनोत्क:=भूमिलोकदर्शनोत्कण्ठितः सन्, भ्रमामि =पर्यटामि // 18 //