________________ ' . तृतीय वर्मा 13 सूत्रमें 'च' का पाठ होनेसे शक्य अर्थमें ण्यत् ( कृत्य ) प्रत्यय / इस पबमें अधार्यत्वमें वसुधागति और विजयद्विहाररूप पदार्थहेतुक एक काव्यलिङ्ग और शैशवके अखण्डनमें पूर्ववाक्यार्थके हेतु होनेसे दूसरा काव्यलिङ्ग, इनका सजातीय सङ्कर है / / 15 // सहस्रपत्वासनपत्त्रहंसवंशस्य पत्त्राणि पतत्रिणः स्मः / . अस्मादृशां चाटुरसाऽमृतानि स्वर्लोकलोकेतरदुर्लभानि // 16 // अन्वयः-पाठाऽनुसारी // 16 // ध्याख्या-हंसः स्वपरिचयं प्रस्तौति-सहस्रेति / सहस्रपत्त्रासनपत्नहंस. वंशस्य = ब्रह्मवाहनहंसकुलस्य, पत्त्राणि = वाहनानि, पतत्रिणः पक्षिणः, स्मः भवामः / वयमिति शेषः / अहं ब्रह्मवाहनहंसकुलोत्पन्नोऽस्मीति भावः / अस्मादृशाम् =अस्मत्सदृशानां, चाटुरसाऽमृतानि = सुभाषितशृङ्गारादिरस. पीयूषाणि, स्वर्लोकलोकेतरदुर्लभानि =देवभिन्न-(मनुष्य) दुष्प्राप्याणि, सन्तीति शेषः // 16 // अनुवाद-(हे राजकुमारि ! ) हम ब्रह्माजीके वाहन हंसोंके कुलमें उत्पन्न वाहन पक्षी हैं / हमारे सरीखे लोगोंके सुभाषितरसरूप अमृत, देवभिन्न मनुष्योंके लिए दुर्लभ हैं // 16 // टिप्पणी - सहस्रपत्त्रासनपत्त्रहंसवंशस्य = सहस्रं पत्त्राणि यस्य तत् सहस्रपत्त्रं (बहु०), "सहस्रपत्त्रं कमलम्" इत्यमरः / सहस्रपत्त्रम् आसनं यस्य स सहस्रपत्वासनः, "विरञ्चिः कमलाऽऽसनः" इत्यमरः / पत्त्राणि च ते हंसाः (50 धा० ) / सहस्रपत्त्रासनस्य पत्त्रहंसाः ( ष० त० ), तेषां वंशः, तस्य ( 10 त० ) / पत्त्राणि = "वंशो वेणी कुले वर्गे" "पत्त्रं स्याद्वाहने पर्णे" इति च विश्वः / अस्मादृशाम् =अस्मानिव पश्यन्तीति अस्मादृशः, तेषाम्, उपपदपूर्वक 'दृश' धातुसे “त्यदादिषु दृशोऽनालोचने कञ्च" इस सूत्रसे क्विन् प्रत्यय / चाटुरसाऽमृतानि = चाटुषु रसाः ( स० त०), ते एव अमृतानि (रूपक०), स्वर्लोकलोकेतरदुर्लभानि-स्वश्वाऽसौ लोकः स्वर्लोकः (क० धा०)। स्वलॊके लोकाः ( देवजनाः ), ( स० त० ) / स्वर्लोकलोकेभ्यः इतरे ( अन्ये, मनुष्या इत्यर्थः ) ( प० त० ) / स्वर्लोकलोकेतरः दुर्लभानि (तृ० त०)। इस पद्यमें रूपक अलङ्कार है // 16 // स्वर्गाऽऽपगाहेममृणालिनीनां नालामृणालाऽप्रभुजो भजामः / अन्नाऽनुरूपां तनुरूपऋद्धि कार्य निदानादि गुणानधीते // 17 //