________________ तृतीयः सर्गः 11 मानुषवाक् मानुषस्य वाक् इव वाक् यस्य सः (व्यधिकरणबहु०) / अवादीवद+ल+तिप् // 12 // अये ! कियद्यावदुपैषि दूरं व्यर्थं ? परिश्राम्यसि वा किमर्थम् ? उदेति ते भीरपि किन्न बाले ! विलोकयन्त्या न घना वनाऽऽली. ? // 13 // अन्वयः-अये बाले ! व्यर्थं कियत् दूरं यावत् उपषि ? वा किमर्थं परिश्राम्यसि ? घना वनाली: विलोकयन्त्याः ते भीः अपि न उदेति किन्नु ? // 13 // व्याख्या-अये बाले ! हे तरुणि ! व्यर्थ =निरर्थ, कियत्-किंपरिमाणं, दूरं यावत् =विप्रकृष्टं पर्यन्तम्, उपैषि = उपैष्यसि ? वा=अथवा, किमर्थं केन प्रयोजनेन, परिश्राम्यसि-परिश्रान्ता भवसि / घनाः निबिडाः, वनाली:= विपिनपङ्क्तीः , विलोकयन्त्याः - पश्यन्त्याः , ते=तव, भीः अपि=भयम् अपि, न उदेति किन्नु ? =न उत्पद्यते किम् ? // 13 // ___ अनुवाद-हे बाले ! व्यर्थ कितनी दूरतक आ रही है ? अथवा किस लिए आप परिश्रान्त होती हैं ? गाढ वनपक्तियोंको देखनेवाली आपको भय भी उत्पन्न नहीं होता है क्या ? // 13 // टिप्पणी-कियत =कि परिमाणं, किम् + वतुप / उपषि = उप+ इण्धातुसे "यावत्" पदके योगमें "यावत्पुरानिपातयोर्लट्" इस सूत्रसे भविष्यत्काल में लट् / किमर्थं =कस्मै इदम् (चतुर्थीतत्पुरुष ) / वनाली:=वनानाम् आल्यः, ताः (10 त०) / विलोकयन्त्याः =वि+लोक् + णिच् + लट् + (शतृ ) डीप् + ङस् // 13 // वृयाऽर्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पः / आलीव पश्य प्रतिषेधतीयं कपोतहुङ्कारगिरा वनाऽऽलिः // 14 // अन्वयः-वृथा अपथे पदम् अर्पयन्ती त्वां मरुल्ललत्पल्लवपाणिकम्पः कपोतहुङ्कारगिरा च इयं वनालि: आली इव प्रतिषेधति, पश्य // 14 // व्याख्या-(हे राजकुमारि ! ) वृथा व्यर्थमेव, अपथे=दुर्मार्गे, अकृत्ये च, पदंपाद, व्यवसायं च, अर्पयन्तीम् कुर्वती (त्वाम्), मल्ललत्पल्लवपाणिकम्पः वायुचलत्किसलयकरवेपथुभिः, कपोतहुङ्कारगिरा पारावतहुङ्करणवाचा च, इयम् =एषा, वनाऽऽलि: विपिनपङ्क्तिः , आली इव-सखी इव, प्रतिषेधति =निवारयति, पश्य =विलोकय, ( वाक्याऽर्थः कर्म ) / यथा लोके कुमार्गप्रवृत्तं जनं सुहृत् पाणिना वाचा च निवारयति, तथैव इयं वनालिः प्रतिषेधति इति भावः // 14 //