________________ 10 नैषधीयचरितं महाकाव्यम् अनुवाद-हंसको पकड़नेकी इच्छा करनेवाली दमयन्ती निकटवर्ती पगपगमें हंसको जैसे हाथसे पकड़े जानेवाला निश्चित रूपसे जानती है, वैसे क्रीडासे चलनेवाले हंसने प्रतारण कर दमयन्तीको लताओंके समीप पहुंचाया // 11 // टिप्पणी-भाविनी भावयतीति, भू + णिच् + णिनि + ङीप् / कृशाङ्गीकृशानि अङ्गानि यस्याः सा ( बहु०); "अङ्गगात्रकण्ठेभ्यो वक्तव्यम्' इससे डीप् / भाविनि-भविष्यतीति भावि, तस्मिन् ; भू धातुसे "भविष्यति गम्यादयः" इस सूत्रसे भविष्यत्काल में णिनि प्रत्यय / पदे-पदेवीप्सामें द्विरुक्ति / करप्राप्यं करेण प्राप्यः, तम् ( तृ० त०)। अवैति - अव+ इण्+लट् + तिप् / सखेलं खेलया सहितं यथा तथा ( तुल्ययोगबहु० ) / चलता=चल+लट् + (शत)+टा / आचकृषे= आइ+ कृष+लिट (कर्म में)+त // 11 // रुषा निषिद्धाऽऽलिजनां यदनां छायाद्वितीयां कलयाञ्चकार / तदा श्रमाऽम्भःकणभूषिताङ्गी स कीरवन्मानुषवागवादीत् // 12 // अन्वयः---रुषा निषिद्धाऽऽलिजनाम् एनां यदा छायाद्वितीयां कलयाञ्चकार तदा श्रमाऽम्भःकणभूषिताऽङ्गीं तां स कीरवत् मानुषवाक् ( सन् ) अवादीत् / व्याख्या-रुषा = क्रोधेन हेतुना, निषिद्धाऽऽलिजनां=निवारितसखीजनां, एनां - दमयन्ती, यदा=यस्मिन्समये, छायाद्वितीयां- प्रतिबिम्बमात्र. सहचरीम्, एकाकिनीमिति भावः / कलयाञ्चकार=ज्ञातवान् तदा तस्मिन् समये, श्रमाऽम्भःकणभूषिताङ्गी=स्वेदजललवाऽलङ्कृताऽङ्गी, तां=भैमी, स- सः, कीरवत् =शुक्रवत्, मानुषवाक =मानववाणीयुक्तः सन्, अवादीत् = उक्तवान् / / 12 // अनुवाद -क्रोधसे सखियोंको निवारण करनेवाली दमयन्तीको जब केवल छायासे युक्त ( अकेली ) जान लिया, तब पसीनेके जलकी कणोंसे अलङ्कृत शरीरवाली उनसे उस हंसने तोतेके समान मनुष्यवाणीसे भाषण किया // 12 // टिप्पणी-निषिद्धाऽऽलिजनां=निषिद्धा आलिजना यया सा, ताम् (बहु० ) / छायाद्वितीयां= छाया एव द्वितीया यस्याः सा ( बहु० ) / अथवा छायया ( कान्त्या ) हेतुना अद्वितीया, ताम् ( तृ० त० ), कान्तिसे अद्वितीय, अतिशय सुन्दरी, यह तात्पर्य है / श्रमाऽम्भःकणभूषिताङ्गी=श्रमेण अम्भःकणाः (तृ० त०), भूषितानि अङ्गानि यस्याः सा, (बहु०) / श्रमाऽम्भःकणः भूषिताङ्गी, ताम् (तृ० त०)। कीरवत् =कीरेण तुल्यम्, कीर+वतिः /