________________ तृतीयः सर्गः अन्वय:-असो हंसः अपि हंसगतेः सुदत्याः पुरः पुरः अग्रे चारु चलन् बलक्ष्यहेतोः एतदीयां गतिम् अनुकृत्य उच्चैः उपहसन् इव बभासे // 10 // व्याख्या-दमयन्तीचेष्टामभिधाय हंसव्यापार प्रतिपादयति-हंसोऽपीति / असौ पूर्वप्रतिपादितः, हंसः अपि राजहंसः अपि, सुदत्याः= सुन्दरदश. नायाः, दमयन्त्या इत्यर्थः / पुरः-पुर:=पुरतः-पुरतः, अग्रे=समन्ताद, चारु= रम्यं, चलन् =गच्छन्, वैलक्ष्यहेतोः= आश्चर्योत्पादनाऽर्थम्, एत. दीयां-दमयन्तीसम्बन्धिनी, गति-गमनम्, अनुकृत्य-अभिनीय, उच्चःअतिशयेन, उपहसन् इव-उपहासं कुर्वन् इव, बभासे-बभी, लोकेऽपि परिहासकास्तत्तच्चेष्टाऽनुकरणेन जनानां विस्मयं जनयन्ति // 10 // __अनुवाद-वह हंस भी हंसके समान चलनेवाली दमयन्तीके आगे मनोहर ढंगसे चलता हुआ आश्चर्य उत्पन्न करनेके लिए उनकी गतिकी नकल कर मानों उपहास करता हुआ शोभित हुआ / / 10 // टिप्पणी-हंसगतेः-हंसस्य इव गतिर्यस्याः सा हंसगतिः, तस्याः ( व्यधिकरण०) / सुदत्या:-शोभना दन्ता यस्याः सा सुदती, तस्याः (बहु०) / "पुरः" इस पदके योगमें “षष्ठयतसर्थप्रत्ययेन" इस सूत्रसे षष्ठी। चलन्च ल+ लट् ( शतृ ) / लक्ष्यहेतोः= वैलक्ष्यस्य हेतुः, तस्य (10 त०), "षष्ठी हेतुप्रयोगे" इससे षष्ठी, "विलक्षो लज्जयाऽन्विते" इत्यमरः / एतदीयाम् एतस्या - इयं एतदीया, ताम्, "त्यदादीनि च" इससे वृद्धसंज्ञा होकर "बुद्धाच्छः" इस सूत्रसे छ ( ईय ) प्रत्यय / उपहसन् - उप+हस + लट् ( शत)। बभासे"भासू दीप्तो" धातुसे लिट् +त / इस पद्यमें उत्प्रेक्षा अलङ्कार है // 10 // पदे पदे भाविनि भाविनी तं यथा करप्राप्यमवति नूनम् / तथा सखेल चलता लतासु प्रतार्य तेनाऽऽचकुषे कुशाऽङ्गी // 11 // अन्वयः-भाविनी कृशाङ्गी भाविनि पदे-पदे तं यथा करप्राप्यं नूनम् अवैति तथा सखेलं चलता तेन प्रतार्य लतासु आचकृषे // 11 // ध्याल्या-भाविनी-हंसग्रहणभावयुक्ता अथवा प्रशस्ताऽभिप्राया, कृशाङ्गीदमयन्ती, भाविनि= भविष्यति अनन्तरे इत्यर्थः, पदे-पदे प्रतिपदं, तं येन हंसं, यथा प्रकारेण, करप्राप्यं हस्तग्राह्यं, नूनं निश्चितम्, अवैतिजानाति, तथा =तेन प्रकारेण, सखेल =सक्रीडं, चलता= गच्छता, तेनहंसेन, प्रतार्य =वञ्चयित्वा, लतासु-वल्लीसमीपे, आचकृषे आकृष्टा, एकान्तं नीतेति भावः / / 11 //