________________ नैषधीयचरित महाकाव्यम् "शस्ता न हंसाऽभिमुखी तवेयं यात्रे"ति ताभिश्छलहस्यमाना। . साऽऽह स्म "नेवाऽशकुनीभवेन्मे भाविप्रियावेदक एव हंसः" // 6 // अन्वयः-"तव इयं हंसाऽभिमुखी यात्रा शस्ता न" इति ताभिः छलहस्यमाना ( सती ) सा "भाविप्रियावेदक एष हंसो मे न अशकुनीभवेत् एव" इति आह स्म // 9 // व्याख्या-"(हे भैमि !.) तव= भवत्याः, इयम् = एषा, हंसाऽभिमुखी राजहंससम्मुखी सूर्यसम्मुखी च, यात्रा = गमनं, शस्ता न-प्रशस्ता न, राजहंसपक्षे-श्रमकारकत्वात्, सूर्यपक्षे-सन्तापकरत्वरूपदृष्टदोषात् शास्त्रविरुद्धत्वाच्च श्रेयस्करी नेति भावः / इति= इत्थं, ताभिः= सखीभिः, छलहस्यमानाछलेन= व्याजोक्त्या, हस्यमाना= उपहस्यमाना सती, सा=दमयन्ती, भाविप्रियावेदक:= भविष्यत्प्रियसूचकः, मङ्गलमूर्तित्वादिति शेषः / एषः= . समीपतरवर्ती, हंसः राजहंसः। मे= मम, दमयन्त्याः / न अशकुनीभवेत् एव =न अपशकुनरूपो भवेत् एव, अथवा न अपक्षी भवेत् एव, इति= इत्थम्, आह स्म=उक्तवती / एतेन यात्रानिषेधपक्षे दोषः परिहृतः // 9 // अनुवाद-"(हे दमयन्ती ! ) आपका यह हंसके वा सूर्यके सम्मुख गमन कल्याणकारक नहीं है" ऐसा कहकर सखियोंके छलसे उपहास करने पर दमयन्तीने "आगामी प्रियका सूचक यह हंस मेरे लिए अपशकुन वा अपक्षी नहीं ही होगा" ऐसा कहा // 9 // टिप्पणी-हंसाऽभिमुखी हंसस्य अभिमुखी (10 त०), छलहस्यमाना-हस्यते इति हस्यमाना, हस+ लट् ( कर्ममें)+यक् +शानच् + टाप् / छलेन हस्यमाना (तृ० त०)। भाविप्रियावेदकः= भावि च तत्प्रियम् (क० धा० ), तस्य आवेदकः (10 त०), मे="मम" के स्थान में "ते मया. वेकवचनस्य" इससे "मे" आदेश / अशकुनीभवेत् -अशकुन + च्वि+भू+लिङ (विधिमें ) / “अस्य च्वो" इससे अवर्णके स्थानमें ईकार आदेश / “शकुनं तु शुभाशंसा निमित्त शकुनः पुमान्" इति विश्वः / आह स्म='ब्रूज व्यक्तायां बाचि" धातुके स्थान में “आह" आदेश होकर "स्म" के योगमें भूतकाल में लट् / इस पद्यमें श्लेष अलङ्कार है // 9 // हंसोऽप्यसो हंसगतेः सुदत्या पुरः पुरश्नाह चलन्धमासे / वैलक्यहेतोगतिमेतबीयामप्रेनुकृत्योपहसभिवोच्चः // 10 //