________________ तृतीयः सर्गः 7 धृताऽल्पकोषा हसिते सखीनां छायेव भास्वन्तमभिप्रयातुः / श्यामाऽय हंसस्य करानवाप्तेमन्दाक्षलक्ष्या लगति स्म पश्चात् // 8 // अन्वयः --- अथ सखीनां हसिते धताऽल्पकोपा भास्वन्तम् अभिप्रयातुः छाया इव श्यामा कराऽनवाप्तेः मन्दाक्षलक्ष्या ( सती ) हंसस्य पश्चात् लगति स्म // 8 // व्याख्या-अथ =अनन्तरं, सखीनिवारणादिति शेषः / सखीनां वयस्यानां, हसिते हास्यविषये, धृताऽल्पकोपा = कृतमन्दक्रोधा, भास्वन्तं = सूर्यम्, अभिप्रयातुः =सम्मुखं गच्छतः, जनस्येत्यर्थः / छाया इव =अनातपरेखा इव, श्यामा नीलवर्णा, अन्यत्र-यौवनमध्यस्था। कराऽनवाप्तेः हस्तेन अप्राप्तेः, पक्षान्तरे --किरणानामप्राप्तेः, मन्दाक्षलक्ष्या अपटुनयनग्राद्या (सती), मन्दाऽक्षः ( अपटुनयनः ) छाया लक्ष्यते न प्रकाश इति भावः / पक्षान्तरेसलज्जा सती / हंसस्य - पक्षिणः, सूर्यस्य वा / पश्चात् पृष्ठभागे, लगति स्म%D लग्नाऽभूत्, ग्रहणाऽऽशया हंसमनुससारेति भावः // 8 // अनुवाद-सखियोंको उलाहना देनेके अनन्तर उनकी हसी में कुछ कोप करनेवाली सूर्यके सम्मुख जानेवालेकी श्याम छायाके समान श्यामा. ( युवती) दमयन्ती हाथसे हंसको न पानेसे लज्जायुक्त होती हुई हंसके पीछे लगी // 8 // ___टिप्पणी --हसिते =हस+क्त + ङि / धृताऽल्पकोपा-धृतः अल्पः कोपो यया सा ( बहु० ) / भास्वन्तंभास्+मतुप् + अम् / अभिप्रयातुः अभि+ प्र+या+ तृ+ ङस् / श्यामा="श्यामा यौवनमध्यस्था" इत्युत्पलमाला / कराऽनवाप्तेः -- न अवाप्तिः अनवाप्तिः ( नम्०), करेण अनवाप्तिः, तस्या (तृ० त०), अथवा कराणाम् ( किरणानाम् ) अनवाप्तिः, तस्याः (ष० त०), दोनों पक्षोंमें हेतुमें पञ्चमी। "बलिहस्तांऽशवः कराः" इत्यमरः / मन्दाक्षलक्ष्या=मन्दे ( अपटुनी ) अक्षिणी ( नेत्रे ) येषां ते मन्दाक्षाः (बहु० ), ':बहुव्रीही सक्थ्यक्ष्णोः स्वाङ्गात्षच्" इससे समासान्त षच् प्रत्यय / मन्दाऽक्षः लक्ष्या (तृ० त०)। मन्द नेत्रोंवालोंसे छाया ही देखी जाती है, प्रकाश नहीं / दूसरे पक्षमें-मन्दाऽक्षेण लक्ष्या (तृ० त०) “मन्दाक्षं ह्रीस्त्रपा ब्रीडा लज्जा" इत्यमरः / लज्जित होती हुई, यह तात्पर्य है। हंसस्य "पश्चात्" इस पदके योगमें “षष्ठयतसर्थप्रत्ययेन" इससे षष्ठी। “रविश्वेतच्छदो हंसौ" इत्यमरः / लगति स्म = "लगे सङ्गे" धातुसे "स्म" धातुके योगमें लट् + तिप् / इस पद्यमें उपमा अलङ्कार है // 8 //