________________ नैषधीयचरितं महाकाव्यम् कामा, मुनिमनोवृत्तिपक्षे-साक्षात्कर्तुकामा च सती, यत्नात् प्रयत्नात्, निश्चलता-निश्चलाऽङ्गत्वं, मुनिमनोवृत्तिपक्षे-स्थिरता, जगाहे-जगाम / / 4 // ____अनुवाद-जैसे मुनिकी मनोवृत्ति अपने शरीरके भीतर आविर्भूत होकर स्थित परमात्माको आदरयुक्त चित्तसे साक्षात्कार करने की इच्छा कर यत्नपूर्वक स्थिर होती है, वैसे ही दमयन्ती भी अपने शरीरके समीप स्थित और चलते हुए हंसको निर्भय हाथसे ग्रहण करनेकी इच्छा कर यत्नपूर्वक निश्चल हुई // 4 // ___ टिप्पणी-मनोवृत्तिः=मनसो वृत्तिः ( 50 त.)। स्विकायां स्वा एव स्विका, तस्यां, स्वा शब्दसे स्वार्थिक कन्, “प्रत्ययस्थात्कात्पूर्वस्याऽत इदाप्यसुपः" इससे इत्व / सन्निहितं-सम् +नि+धा+क्त+अम् / चरन्तं = चरतीति चरन्, तं, चर+लट् + शतृ + अम्, हंसं = "हंसो विहङ्गभेदे च परमात्मनि मत्सरे" इति विश्वः / अदरिणा=दरः अस्याऽस्तीति दरी, दर+ इनिः / न दरी अदरी ( न० ), तेन, "दरस्त्रसो भीति H साध्वसं भयम्" इत्यमरः / शयेन = "पञ्चशाखः शयः पाणिः" इत्यमरः / आदरिणा= आदरः अस्याऽस्तीति आदरी, तेन, आदर+ इनि+टा / आशयेन = "अभिप्रायश्छन्द आशयः" इत्यमरः / ग्रहीतुकामा=ग्रहीतुं कामः यस्याः सा (बहु० ) / ग्रहीतुं= ग्रह + तुमुन् / “ग्रहोऽलिटि दीर्घः" इससे दीर्घ / “तुं काममनसोरपि" इससे मकारका लोप / निश्चलता-निश्चलस्य भावो निश्चलता, ताम्, निश्चल + तल्+टाप् + अम् / जगाहे="गाहू विलोडने" धातुसे लिट् / इस पद्यमें श्लेष और उपमाका अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 4 // , तामिङ्गितरप्यनुमाय मायामयं न भैम्या वियदुत्पपात। तत्पाणिमात्मोपरिपातुकं तु मोघं वितेने प्लुतिलाघवेन // 5 // अन्वय:-अयं तां भैम्या मायाम् इङ्गितः अनुमाय अपि धैर्यात् वियत् न उत्पपात / आत्मोपरिपातुकं तत्पाणिं तु प्लुतिलाघवेन मोघं वितेने // 5 // व्याख्या-अयं हंसः, तां=पूर्वोक्तां, भैम्याः= दमयन्त्याः, मायांकपट, स्वग्रहणाऽर्थमिति शेषः / इङ्गितः=चेष्टितैः, अनुमाय अपि=ज्ञात्वा अपि, धैर्यात स्थैर्यम् आस्थाय, वियत् =आकाशं प्रति, न उत्पपातन उड्डीनः, आत्मोपरिपातुकं =स्वोपरिपतयालु, तत्पाणि तु = दमयन्तीहस्तं तु, प्लुतिलाघवेन - उत्पतनकोशलेन, मोघं =निष्फलं, वितेने कृतवान्, आशामजी. जनत् परं पाणिगतो नाऽभूदिति भावः // 5 //