________________ . .. तृतीयः सर्गः व्याख्या-वैदर्भसुतासखीनां भैमीवयस्यानां, नेत्राणि नयनानि, विमुक्ततत्तद्विषयग्रहाणि परित्यक्ततत्तच्छब्दादिविषयग्रहणानि सन्ति, पदमिदं "चेतांसि" इत्यत्राऽपि योजनीयम् / एकम् एकचरं, ब्रह्मपक्षे-अद्वितीयं, निरुपाख्यरूपम् = अनिर्वाच्याकारं, ब्रह्मपक्षे-अनिर्वचनीयस्वरूपं, तं =पुरोवतिनं, हंसं राजहंसं, ब्रह्मपक्षे-तत्पदाऽर्थभूतं यतव्रतानां योगिनां, चेतांसि = अन्तःकरणानि, ब्रह्म इव - परात्मानम् इव, प्रापुः= आसादयामासुः, अत्यादरेण अद्राक्षरित्यर्थः // 3 // अनुवादः-दमयन्तीकी सखियोंके नेत्रोंने उन-उन विषयोंकी आसक्तिको छोड़कर अकेले चलनेवाले, अनिर्वाच्य आकारवाले, उस हंसको, जैसे योगियोंके चित्त अद्वितीय, अनिर्वचनीय स्वरूपवाले और तत् पदके अर्थस्वरूप ब्रह्मको ग्रहण करते हैं, उसी तरह ग्रहण किया // 3 // टिप्पणी-वैदर्भसुतासखीनां विदर्भाणां राजा वैदर्भः, विदर्भ शब्दसे "जनपदशब्दात्क्षत्रियादम्' इस सूत्रसे अञ् प्रत्यय / विमुक्ततत्तद्विषयग्रहाणि-ते च ते च तत्ते ( क० धा० ), तत्ते च ते विषयाः तत्तद्विषयाः ( क० धा० ), तत्तद्वि: षयाणां ग्रहाः ( 10 त०), विमुक्ताः तत्तद्विषयग्रहा यस्तानि (बहु०) / निरुपाख्यरूपं - निर्गता उपाख्या यस्मात्तत् निरुपाख्यं (बहु०), तत् रूपं यस्य, तम् ( हंसपक्षे ), तत् ( ब्रह्मपक्षे ) ( बहु० ), यतव्रतानां यतं व्रतं येषां ते यतव्रताः, तेषाम् ( बहु० ) / इस पद्यमें उपमा अलङ्कार है // 3 // हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् / ग्रहीतकामादरिणा शयेन यत्नादसौ निश्चलतां जगाहे // 4 // अन्वयः-असो मुनेः मनोवृत्तिः इव स्विकायां तनो सन्निहितं चरन्तं हंसम् अदरिणा शयेन (आदरिणा आशयेन वा) ग्रहीतुकामा (सती) यत्नात् निश्चलतां जगाहे // 4 // व्याख्या-- असो - दमयन्ती, मुनेः योगिनः, मनोवृत्तिः इव चित्त. वृत्तिः इव, स्विकायां स्वकीयायां, तनो=शरीरसमीपे, मुनिमनोवृत्तिपक्षेतन्वभ्यन्तरे, सन्निहितं निकटस्थम्, मुनिमनोवृत्तिपक्षे-आविर्भूतं, परन्त= सञ्चरन्तं, मुनिमनोवृत्तिपक्षे-वर्तमानं, हंसं=मरालं, मुनिमनोवृत्तिपक्षेपरमात्मानं च, अदरिणा=निर्भयेन, शयेन = पाणिना, मुनमनोवृत्तिपक्षेआदरिणा=आदरयुक्तेन, . आशयेन=चित्तेन, ग्रहीतुकामा-आदातु