________________ नैषधीयचरितं महाकाव्यम् निवेशदेशे आततधूतपक्षः ( स० त० ) / उपभैमि= भम्याः समीपे, समीप अर्थमें अव्ययीभाव / पपात = पात+लिट् + तिप् / इस पद्यमें स्वभावोक्ति अलङ्कार है / प्रथम चरणमें इन्ट बज्रा और द्वितीय, तृतीय और चतुर्थ चरणमें उपेन्द्रवज्रा, इस प्रकार उपजाति छन्द है / जैसे कि -- "स्यादिन्द्रवजा यदि तो जगी गः, उपेन्द्रवज्रा जतजास्ततो गौ। अनन्तरोदीरितलक्ष्मभाजी पादौ यदीयावुपजातयस्ताः " // 1 // आकस्मिक: पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चचार / द्रागन्यविन्यस्तरशः स तस्या सम्भ्रान्तमन्त:करणं चकार // 2 // अन्वयः-तदा पक्षपुटाहतायाः क्षिते आकस्मिकः यः स्वन उच्चचार / सः अन्य विन्यस्तदशः तस्याः अन्तःकरणं द्राक् सम्भ्रान्तं चकार // 2 // व्याख्या-तदापतनसमये, पक्षपुटाहतायाः =पतत्रपुटताडितायाः, क्षिते = पृथिव्याः, सकाशात् आकस्मिकः=अकस्माद्भवः अहेतुक इत्यर्थः / यः स्वनः= ध्वनिः, उच्चगर= उत्थितः सः- ध्वनिः, अन्यविन्यस्तदशः =विषयान्तरनिविष्टनयनायाः, तस्याः- दमयन्त्याः , अन्तःकरणं =मनः, द्राक-झटिति, सम्भ्रान्तं ससम्भ्रमं, चकार-कृतवान्, आकस्मिकशब्दश्रवणाद् भैमी सभया साश्चर्या च जातेति भावः // 2 // अनुवाद-हंसके पतनके समयमें उसके पंखोंसे ताडित पृथिवीसे अकस्मात् जो शब्द उत्पन्न हुआ, उसने दूसरे विषय में चित्त देनेवाली दमयन्ती के अन्तःकरणको संभ्रमयुक्त बनाया // 2 // टिप्पणी-पक्षपुटाहतायाः=पक्षयोः पुटं (ष० त०), तेन आहता, तस्या ( तृ० त०)। क्षितेः=अपादानमें पञ्चमी। आकस्मिकः=अकस्मात् भवः "तत्र भवः" इसके ठक् प्रत्यय / उच्चचार-उद् + चर+लिट् + तिप् / अकर्मक होनेसे "उदश्चरः सकर्मकात्" इससे आत्मनेपद नहीं हुआ। अन्यविन्यस्तदशः=विन्यस्ते दृशी यया सा ( बहु० ), अन्यस्मिन् विन्यस्तदक्, तस्या ( स० त०)। सम्भ्रान्तं-सम्+भ्रम+क्त+अम् / चकार% + लिट्+तिप् / इस पद्यमें स्वभावोक्ति अलङ्कार है // 2 // नेत्राणि वैदर्भसुतासखीनां विमुक्ततत्तद्विषयग्रहाणि / प्रापुस्तमेकं निरुपाख्यरूपं ब्रह्मेव चेतांसि यतव्रतानाम् // 3 // अन्वयः-वैदर्भसुतासखीनां नेत्राणि विमुक्ततत्तद्विषयगृहाणि ( सन्ति ) एकं निरुपाख्य रूपं तं हंसं यतव्रतानां चेतांसि ब्रह्म इव प्रापुः // 3 //