________________ // श्रीः // नैषधीयचरित महाकाव्यम् चन्द्रकलाऽऽख्यया व्याख्यया हिन्धनुवादेन च विभूषितम् . . तृतीयः सर्गः आकुञ्चिताभ्यामथ पक्षतिभ्यां नमोविभागातरसाऽवतीर्य / निवेशदेशाऽऽततधूतपक्षः पपात भूमावुरममि हंसः // 1 // अन्वयः-अथ हंसः आकुञ्चिताभ्यां पक्षतिभ्यां नमोविभागात तरसा अबतीर्य निवेशदेशाऽऽततधूतपक्षः उपभैमि भूमी पपात // 1 // व्याख्या-अथ =मण्डलीकरणाऽनन्तरं, हंसः=राजहंसः, माकुञ्चिताभ्यां सङ्कुचिताभ्यां, पक्षतिभ्यां पक्षमूलाभ्यां, नभोविभागा=आकाशदेशात, तरसा =वेगेन, अवतीयं =अवरुह्य, निवेशदेशाऽऽततधूतपक्षः-उपनिवेशस्थानविस्तारितकम्पितपतत्रः सन् , उपभैमिदमयन्त्याः समीपे, भूमौ भुवि, पपात=आपतितः // 1 // . अनुवाद-मण्डलीकरणके अनन्तर हंस सङ्कुचित पक्षमूलोंसे आकाशदेशसे वेगसे उतरकर बैठनेके स्थान पर पंखोंको फैलाकर और कम्पित कर दमयन्तीके समीप उतरा // 1 // टिप्पणी-हसतीति हंसः, "हस" धातुसे अच् प्रत्यय और "पृषोदरादीनि यथोपदिष्टम्" इसके अनुसार नुम् वर्णका आगम हुआ है / "भवेद्वर्णाऽऽगमाद्धंसः" / पक्षतिभ्यां= "स्त्री पक्षतिः पक्षमूलम्" इत्यमरः / नमोविभागात = नभसो विभागः, तस्मात् ( ष० त० ) / अवतीर्यअव++क्त्वा (ल्यप् ) / निवेशदेशाऽऽततधूतपक्ष =निवेशस्य देशः (10 त० ), समन्तात् ततो आततो "कुगतिप्रादयः" इससे गतिसमास / आतती धूती येन सः (बहु० ) / 8 ने तृ०