________________ नैषधीयचरितं महाकाव्यम् इस प्रकार दो अलंकारोंसे संसृष्टि अलंकार है // 3 // अधीतिबोषाचरणप्रचारणेदंशाश्चतस्त्रा प्रणयन्नुपाधिभिः। चतुर्दशत्वं कृतवान्कुतः स्वयं न वेनि विद्यासु चतुर्दशस्वयम् // 4 // अन्वयः- अयं चतुर्दशसु विद्यासु अधीतिबोधाचरणप्रचारणः उपाधिभिः चतस्रः दशाः प्रणयन् स्वयं चतुर्दशत्वं कुतः कृतवान् ? ( इति) न वेधि // 4 // व्याख्या-नलस्य चतुर्दशविद्याध्ययनं प्रतिपादयति-अधीतीति / अयं नलः, चतुर्दशसु = चतुर्दशसंख्यकासु, विद्यासु = वेदादिषु, अधीतिबोधाचरणप्रचारण:श्रवणाऽर्थज्ञानतदर्थाऽनुष्ठानप्रसारणः, उपाधिभिः = भेदः, चतस्रः = चतुःसंख्यकाः, दशाः = सवस्थाः , प्रणयन् = कुर्वन्, स्वयम् = आत्मना, चतुर्दशत्वं चतुर्दशसंख्य. कत्वं, कुतः कस्मात्, कृतवान् विहितवान्, इति, न वेनि= नो जाने, चतुर्दशसंख्यकानां विद्यानां चतुरावृत्या षट्पञ्चाशत्त्वमापादनीयं, कथं केवलं चतुर्दशत्वमिति भावः, चतुरवस्थत्वं कृतवानिति विरोधपरिहारः // 4 // अनुवादः-महाराज नलने चौदह विद्याओंमें, शब्दतः अध्ययन, अर्थका ज्ञान, शास्त्रोक्त कर्मका आचरण और प्रचारण इन भेदोंसे चार अवस्थाओंको करते हुए स्वयम् चतुर्दशत्व कैसे किया ? यह मैं नहीं जानता हूँ। चौदह विद्याओंको चार भेदोंसे गुणन करनेपर छप्पन भेद होने चाहिए परन्तु चौदह ही कैसे हुए ऐसा विरोध होनेपर उन विद्याओंको चतुर्दशत्व अर्थात् अध्ययन आदिसे चार अवस्थाओंवाली बनानेसे उसका परिहार हो जाता है // 4 // टिप्पणी-चतुर्दशसु = चतुरधिका दश चतुर्दश, तासु, "शाकपार्थिवादीनां सिद्धय उत्तरपदलोपस्योपसंख्यानम्" इससे मध्यमपदलोपी समास / विद्यासु = विदन्ति धर्माऽर्थकाममोक्षान् आभिरिति विद्या, तासु, "विद ज्ञाने" धातुसे "संज्ञायां समजनिषदनिपतमनविदषुज्शीङ् भृत्रिणः' इस सूत्रसे क्यप् प्रत्यय होकर "अजाद्यतष्टाप्"इस सूत्रसे टाप् प्रत्यय / चौदह विद्याएं हैं जैसे कि विष्णुपुराणमें हैं "अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः / धर्मशास्त्रं पुराण च विद्या ह्येताश्चतुर्दश // " अर्थात् वेदके छ: अंग-शिक्षा, कल्प, व्याकरण, निरुक्त, छन्द और ज्योतिष चार वेद-ऋक्, यजु, साम और अथर्ववेद / मीमांसा न्याय, धर्मशास्त्र और पुराण / अधीतिबोधाचरणप्रचारणः = अध्ययनम् अधीतिः, अधि = उपसर्गपूर्वक "इङ् अध्ययने" धातुसे "स्त्रियां क्तिन्" इस सूत्रसे क्तिन्प्रत्यय / बोधनं बोधः, "बुध अवगमने" धातुसे "भाव" इस सूबसे घन् / अधीतिश्च बोधश्च आचरणं