________________ 102 नैषधीयचरितं महाकाव्यम् भ्रमणरयविकीर्णस्वर्णभासा खगेन क्वचन पतनयोग्य देशमन्विष्यताऽधः / मुखविधुमवसीयं सेवितुं लम्बमानः शशिपरिधिरिवोच्चमण्डलस्तेन तेने // 108 // अन्वयः-अधो भूतले क्वचन पतनयोग्यं देशम् अन्विष्यता भ्रमणरयविकीर्णपर्णभासा तेन खगेन अदसीयं मुखविधं सेवितुं लम्बमानः शशिपरिधिः इव चः मण्डल: तेने // 108 // ज्याख्या-अधः निम्नभागे, भूतले = भूमितले, क्वचन - कुत्रचित्, पतनयोग्यम् =अवतरणाऽह, देशं = स्थानम्, अन्विष्यता=गवेषमाणेन, भ्रमणरयविकीर्णस्वर्णभासा=भ्रमिवेगविक्षिप्तसुवर्णकान्तिना, तेन =पूर्वोक्तेन, खगेन पक्षिणा, हंसेनेत्यर्थः / अदसीयं = दमयन्तीसम्बन्धिनं, मुखविधुं= वदनचन्द्र, सेवितुं=सेवनं कर्तु, द्रष्टुमिति भावः / लम्बमानः=स्रंसमानः, शशिपरिधिः इवचन्द्रपरिवेष इव, उच्चैः = उपरि, मण्डल:- वलयः, तेने वितेने / / 108 // अनुवाद-नीचे जमीनपर कहीं उतरने के लिए उपयुक्त स्थान ढूंढ़नेवाले और भ्रमणके वेगसे सुनहरी कान्तिको फैलानेवाले उस पक्षी (हंस) ने दमयन्तीके मुखचन्द्रकी सेवा करनेके लिए लटककर चन्द्रमाके परिवेश के समान ऊपर मण्डल ( चक्कर ) फैलाया // 108 // टिप्पणी-भूतले = भुवः तलं, तस्मिन् ( 10 त०)। पतनयोग्यं =पतने योग्यः, तम् ( स० त० ) / अन्विष्यता-अविष्यतीति अन्विष्यन्, तेन, अनु+ इष+लट(शत)+टा / भ्रमणरयविकीर्णस्वर्णभासा भ्रमणस्य रयः (ष०त०), तेम विकीर्णा (तृ० त०)। स्वर्णस्य भाः (ष० त०), भ्रमणरयविकीर्णा स्वर्णभा येन, तेन (बहु०) / अदसीयम् =अमुष्या अयम् अदसीयः, तम् / अदस् शब्दसे "त्यदादीनि च" इससे वृद्धसंज्ञा होकर "वृद्धाच्छ:"=सेव+तुमुन् / लम्बमान:= लबि+ लट् ( शानच् + सु / शशिपरिधिः=शशिनः परिधिः (10 त० ), मण्डल:=' बिम्बोऽस्त्री मण्डलं त्रिषु" इत्यमरः / तेने = "तनु विस्तारे" धातुसे कर्ममें लिट् + त / इस पद्यमें स्वभावोक्ति, 'मुखविधुम्' यहाँपर रूपक 'शशिपरिधिः इव' यहाँपर उत्प्रेक्षा, इन अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है / मालिनी छन्द है // 108 //