________________ द्वितीयः सर्गः 101 अन्वयः-अथ कनकपतत्त्रः तत्र सदृशभासां सखीनां सदसि विस्फुरन्तीम् उडुपरिषदि मध्यस्थायिशीतांऽशुलेखाऽनुकरणपटुलक्ष्मी तां राजपुत्रीम् अक्षिलक्षीचकार // 107 // ___ व्याल्या-अथ -भैमीवनदर्शनाऽनन्तरं, कनकपतत्त्रः सुवर्णमयपक्षः, राजहंस इत्यर्थः / तत्र-भैमीवने, सदृशभासां= स्वसदृशसौन्दर्याणां, सखीनां वयस्यानां, मदसि=सभायां, विस्फुरन्तीं विद्योतमानाम्, उडुपरिषदि= तारकासभायां, मध्यस्थायिशीतांशुलेखाऽनुकरणपटुलक्ष्मीम् =अन्तरस्थचन्द्रकलाऽनुकारसमर्थशोभा, तांपूर्वोक्तां, राजपुत्री भीमभूपदुहितरम्, अक्षिलक्षीचकार= नयनगोचरीचकार, ददशेत्यर्थः // 107 // _ अनुवाद- दमयन्तीका उग्रवन देखनेके अनन्तर सुनहरे पंखोंवाले ( उस हंस ) ने उस उपवनमें तुल्यकान्तिवाली सखियोंकी सभामें शोभित होनेवाली, ताराओंकी सभामें बीच में रहनेवाली चन्द्रकलाके अनुकरण (नकल ) में समर्थ शोभावाली उस राजकुमारी ( दमयन्ती ) को देखा // 107 // टिप्पणी-कनकपतत्त्रः= कनकस्य विकारी कनके, ते पतत्त्रे यस्य सः ( बहु० ) / सदृशभासां= सदृशी भा यासां सदृशभासः, तासाम् ( बहु० ), "भाश्छविद्युतिदीप्तयः" इत्यमरः / विस्फुरन्ती =विस्फुरतीति विस्फुरन्ती, तां, वि+ स्फुर् + लट्(शतृ.)+ ङीप्+अम् / उडुपरिषदि-उडूनां परिषद, तस्याम् (10 त० ) / “नक्षत्रमृक्षं भं तारा तारकाऽप्युडु वा स्त्रियाम्" इत्यमरः / मध्यस्थायिशीतांऽशुलेखाऽनुकरणपटुलक्ष्मी = मध्ये तिष्ठतीति मध्यस्थायिनी, मध्यउपपदपूर्वक स्था धातुसे णिनि प्रत्यय, "आतो युक् चिण्कृतोः" इस सूत्रसे युक् आगम और स्त्रीत्वविवक्षामें डीप् / शीता अंशवो यस्य स शीतांशुः (बहु०), तस्य लेखा ( ष० त०), मध्यस्थायिनी चाऽसौ शीतांशुलेखा (क० धा० ), तस्या अनुकरणं ( 10 त०)। पटुः लक्ष्मीः यस्या सा पटुलक्ष्मीः ( बहु० ), समासान्तविधिके अनित्य होनेसे "नवृतश्च" इससे समासान्त कप् प्रत्यय नहीं हुआ। शीतांऽशुलेखाऽनुकरणे पटुलक्ष्मीः, ताम् ( स० त० ) / राजपुत्री-पुतः ( तनामनरकात् ) वायत इति पुत्त्री, पुत्+त्रै (त्रा)+ क + डीन् / "शाङ्गरवाचओ डीन्" इससे डीन् / “सुता तु दुहिता पुत्री" इति त्रिकाण्डशेषः / राज्ञः पुत्री, ताम् (10 त०)। अक्षिलक्षीचकार= लक्ष्यत इति लक्षं, लक्ष + घञ् / "लक्ष लक्ष्यं शरव्यं च" इत्यमरः / अक्ष्णोर्लक्षम् (ष० त०)। अनक्षिलक्षम् अक्षिलक्षं यथा सम्पद्यते तथा चकार अक्षिलक्षीचकार, अक्षिलक्ष + वि ++लिट् +तिप् / इस पचमें उपमा अलहार और मालिनी छन्द है / / 107 //