________________ मंषधीयचरितं महाकाव्यम् स्वर्गम्, अमरावतीमित्यर्थः, धनरत्नकवाटपक्षतिः निबिडमणिकपाटपक्षमूल: सन् / परिरभ्य=आलिङ्गय, अनुनयन् अनुनय कुर्वन्, अनुसरन्नित्यर्थः, उवास उषितवान्, कामिनः प्रणयकुपितां प्रेयसीमाप्रसादमनुगच्छन्तीति भावः // 86 // ___ अनुवाद-सुवर्णप्राकाररूप सुमेरुपर्वत जिस कुण्डिनपुरीरूप मानिनी और गोद से आई हुई अमरावतीको गाढ रत्नोंवाले कपाटरूप पक्षमूलोंसे युक्त होकर आलिङ्गन कर अनुनय करता हुआ रहता था / 86 // टिप्पणी-वरण:-"प्राकारो वरणो वप्रः" इत्यमरः / अमराऽद्रि:= अमरस्य अद्रिः (10 त०)। मानिनी=मानः अस्ति अस्याः सा मानिनी, ताम्, मान्+इनि+की+ अम् / घनरत्नकवाटपक्षतिः- रत्नानां कवाटे (10 त०), "कवाटमररं तुल्ये' इत्यमरः / घने रत्नकवाटे एव पक्षती यस्य सः ( बहु०)। "स्त्री पक्षतिः पक्षमूलम्" इत्यमरः / परिरभ्य= परि+रभ् + क्त्वा ( ल्यप् ) / अनुनयन् = अनुनयतीति, अनु+नी+लट् ( शतृ )+सु / उवास=वस+लिट+तिप् (णल)। इस पद्यसे विदर्भ देशमें सुवर्णका प्राकार सुमेरु पर्वतके समान है, कुण्डिननगरी अमरावतीकी सदृश है, रत्नोंके किवाड़ सुमेरुपर्वतके पक्षमूलोंके तुल्य हैं, ऐसी प्रतीति होती है / इस पद्यमें सुवर्णप्राकारमें सुमेरुपर्वतका और कपाटमें पक्षतिका और कुण्डिननगरीमें अमरावती का आरोप होनेसे समस्तवस्तुविषय साङ्गरूपक और लिङ्गसाम्यसे सुमेरुपर्वत और स्वर्गपुरी में नायक और नायिकाके व्यवहारका समारोप होनेसे समा. सोक्ति है, इस प्रकार दो अलङ्कारोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलङ्कार है // 86 // अनल: परिवेषमेत्य या ज्वलर्कोपलवप्रजन्मभिः / उदयं लयमन्तरा रवेरवहबाणपुरीपरायताम् // 87 // अन्वयः-या रवेः उदयं लयम् अन्तरा ज्वलदर्कोपलवप्रजन्मभिः अनल: परिवेषम् एत्य बाणपुरीपराय॑ताम् अवहत् // 87 // व्याल्या-या = कुण्डिननगरी, रवेः सूर्यस्य, उदयम् - उद्गम, लयम् - अस्तमयं च, अन्तरामध्ये, सूर्यस्योदयाऽस्तकालयोर्मध्यकाल इति भावः / ज्वलदर्कोपलवप्रजन्मभिः दीप्यमानसूर्यकान्तप्राकारोत्पन्नः, सूर्यकिरणसम्पर्कादिति शेषः / अनल:=अग्निभिः, परिवेषं - परिवेष्टनम्, एत्य=प्राप्य, बाणपुरीपराध्यतांबाणासुरनगरीश्रेष्ठताम्, अग्निपरिवेष्टिततामिति भावः / अवह%=धृतवान् / / 87 //