SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः - व्याख्या-अथ द्वात्रिंशत्संख्यकैः पद्यैः कुण्डिनपुरीं वर्णयति / या=कुण्डिनपुर्या, स्फटिकोपलविग्रहाः स्फटिकमणिमयशरीराः,शशभृद्भित्तरनिरङ्कभित्तयः चन्द्रखण्डनिष्कलङ्ककुड्याः , गृहा=भवनानि, दयितं प्रति=प्रियं प्रति, भीमभूपं प्रतीति भावः / सन्ततम् =निरन्तरं, भुवः भूमेः, नायिकास्वरूपाया इति भावः / रतिहासा इव के लिहास्यानि इव, कविसमये हासस्य शुक्लवर्णवादिति भावः / रेजिरे-शुशुभिरे / / 74 // अनुवाद-जिस कुण्डिननगरीमें स्फटिक मणि से बने हुए चन्द्रखण्डोंके समान निष्कलङ्क दीवारोंवाले भवन, पति महाराज भीमके प्रति पृथ्वीरूप नायिकाके निरन्तर क्रीडाके हास्योंके समान शोभित होते थे / / 74 / / टिप्पणी-स्फटिकोपलविग्रहाः= स्फटिकाश्च त उपलाः (क० धा० ), त एव विग्रहाः येषां ते ( बहु० ) 'शरीरं वर्म विग्रहः' इत्यमरः / शशभृद्भित्तनिरङ्कभित्तयः=शशं बिभर्तीति शशभृत्, शश+भृ+ क्विप् ( उप०) / तस्य भित्तानि ( ष० त०), "भित्तं शकलखण्डे वा पुंसि" इत्यमरः / निर्गतः अङ्क (कलङ्कः ) याभ्यस्ताः निरङ्काः (बहु.), शशभृभित्तानि इव निरङ्का भित्तयो येषां ते (बहु०) / "भित्तिः स्त्री कुडयमेडूकम्" इत्यमरः / गृहाः="गृहाः पुंसि च भूम्न्येव निकाय्यनिलयालयाः" इत्यमरः / दयित='प्रति' इसके योगसे 'अभितःपरितःसमयानिकषाहाप्रतियोगेऽपि' इस वार्तिकसे द्वितीया विभक्ति / रतिहासाः=रतेर्हासाः (ष० त०)। रेजिरे='राज दीप्तो' धातुसे लिट् + / 'फणां च सप्तानाम्' इस सूत्रसे एत्व और अभ्यासका लोप / इस पद्यमें पूर्वार्द्ध में उत्प्रेक्षा और उत्तरार्द्धमें उपमा, इस प्रकार दो अलङ्कारोंकी संसृष्टि है / / 74 / / नृपनीलमणीगृहत्विषामुपधेर्यत्र भयेन मास्वतः / - शरणाप्तमुवास वासरेऽप्यसवावृत्युदयत्तमं तमः // 75 // ... अन्वयः-यत्र तमः भास्वतः भयेन नृपनीलमणीगृहत्विषाम् उपधेः शरणाप्तं वासरे अपि असदावृत्ति उदयत्तमम् ( सत् ) उवास / / 75 // व्याख्या-यत्र-यस्यां, कुण्डिननगर्यामित्यर्थः। तमः=अन्धकारं, भास्वतः= सूर्यात्, भयेन =भीत्या, नृपनीलमणीगृहत्विषां= भूपेन्द्रनीलरत्नगृहकान्तीनाम्, उपधेः= छलात्, शरणाप्तं गृहप्राप्तं, वासरे अपि =दिवसे अपि, असदावृत्तिः पुनरावृत्तिरहितम्, अत उदयत्तमम् =उद्यत्तमं सत्, अतिनिबिड. मिति भावः / उवास= वसति स्म // 75 //
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy