________________ नैषधीयचरितं महाकाव्यम् अथ तत्र भवांश्चिन्तामणिमन्त्रचिन्तनप्राप्ताऽलौकिकप्रतिभाप्रवर्षो महाकविः श्रीहर्षः पुण्यश्लोकश्लोकनपरं नैषधीयचरिताऽभिधानं महाकाव्यं विधित्सुगदी वस्तुनिर्देशरूपं मङ्गलं निर्दिशति निपीयेनि निपीय यस्य क्षितिरक्षिण: कथां तथाऽऽद्रियन्ते न बुधाः सुषामपि / नलः सितच्छत्रि तकीतिमण्डल: स राशिरासीन्महसा महोज्ज्वल: // 1 // अन्वयः-यस्य क्षितिरक्षिण: कथां निपीय बुधाः सुधाम् अपि यथा न आद्रियन्ते / सितच्छत्रितकीर्तिमण्डल: महसां राशि: महोज्ज्वलः स नल आसीत् // 1 // ___ व्याख्या-यस्य = प्रकृतस्य, क्षितिरक्षिणः - भूपतेः, कथानायकस्य नलस्येति भावः / कथाम् = उपाख्यानं, निपीय = नितरामास्वाद्य, सादरं श्रुत्वेति भावः / बुधाः = विद्वांसः, सुधाम् अपि = अमृतम् अपि, तथा = तेन प्रकारेण न आद्रियन्ते - न आदरं कुर्वन्ति. बुधाः सुधाम् उपेक्ष्य नलकथां बहु मन्यन्त इति भावः / सितच्छत्रि तकीर्तिमण्डलः = शुक्लातपत्रीकृतयशोमण्डल:, महसां - तेजसां, राशिः = सम्हः, रविरितिभावः। महोज्ज्वलः = उत्सवदीप्यमानः, नित्यमहोत्सवशालीति भावः। सः = प्रसिद्धः, नल: = नलनामको राजा, आसीत् = अभवत् / 1 / अनुवादः-जिन राजा नलकी कथाको सुनकर विद्वान् (वा देवता) अमृतका भी वैसा आदर नहीं करते हैं। महाराज नल कीर्तिमण्डलको सफेद छत्र बनानेवाले, तेजोंके राशिस्वरूप ( सूर्य के समान ), उत्सवोंसे 'उज्ज्वल अथवा अतिशय श्रृङ्गार-रसवाले थे // 1 // टिप्पणी-विघ्नध्वंसके लिए वा आरब्ध कार्य निर्विघ्नपूर्वक समाप्त हो जाय इसके लिए मङ्गलका आचरण किया जाता है / मङ्गलके तीन भेद होते हैंनति ( नमस्कार ), स्तुति और वस्तुनिर्देश / यहाँपर पुण्यश्लोक (पवित्र कीर्तिवाले ) नलरूप वस्तुका निर्देश करनेसे वस्तुनिर्देशरूप मङ्गल है / क्षितिक्षिणः = क्षितिं रक्षतीति तच्छील: तस्य, क्षिति-उपपदपूर्वक रक्ष घातुसे "सुप्यजातो णिनिस्ताच्छीस्ये" इस सूत्रसे णिनि प्रत्यय ( उपपदसमास ) / कथांकथनं कथा ताम् 'कथ वाक्यप्रबन्धे" धातुसे "चिन्तिपूजिकथिकुम्बिवर्चश्च" इस सूत्रसे अङ्ग और "अजाद्यतष्टाप्" इस सूत्रसे टाप् प्रत्यय / निपीय=नितरां पीत्वा, नि-उपसगंपूर्वक “पीङ् पाने" धातुसे "समानकर्तृकयोः पूर्वकाले" इस सूत्रसे क्त्वा प्रत्यय और उसके स्थानमें 'समासेऽनपूर्वे क्त्वो ल्यप्" इस सूत्रसे ल्यप् आदेश / यहाँ “पा पाने" धातु नही लेना चाहिए क्योंकि "न ल्यपि" इस सूत्रसे