________________ नैषधीयचरितं महाकाव्यम् वर्ततां भवतु / त्वरितं = शीघ्रम् एव, पुनः= भूयः, समागमः=सङ्गमः, मया सहेति शेषः / अस्तु= भवतु, कृतकार्यस्य तवेति शेषः / अपिसाधय गच्छ / ईप्सितम् =अभीष्टं, दमयन्त्या समं मत्संयोजनरूपमिति शेषः / साधय सम्पा. दय / समये कार्यकाले, वयं, स्मरणीयाः स्मर्तव्याः // 62 / / ___ अनुवाद-हे हंस ! तुम्हारा मार्ग मङ्गलमय हो / शीघ्र फिर तुम्हारे साथ हमारा समागम हो। जाओ; मेरे अभीष्ट कार्यका सम्पादन करो। उचित समयमें तुम मेरा स्मरण करना // 12 // टिप्पणी-हे वयः- "खगबाल्यादिनोर्वयः" इत्यमरः / वर्ततां="वृतु वर्तने" धातुसे प्रार्थनामें लोट् + त / अस्तु="अस भुवि" धातुसे लोट्+तिम् / अपिसाधय =अपि+साध् + णिच् + लोट् + सिप् / ईप्सितम् =आप्तुम् इष्टं, तत् सन्नन्त "आप्ल व्याप्ती" धातुसे क्त प्रत्यय और "आप्ज्ञप्यभामीत्" इस सूत्रसे आपका ईत्व / वयम् = "अस्मदो द्वयोश्च" इस सूत्रके अनुसार एकवचनमें भी बहुवचन / स्मरणीयाः स्मर्तु योग्याः, स्मृ + अनीयर् + जस् / इस पद्य में छेक अलङ्कार है और ओज नामक काव्यलक्षण है, जैसे कि "ओजः स्यात्प्रो. ढिरर्थस्य सङ्क्षपो वोऽति भूयसः / " अर्थात् जहाँपर प्रोढि वा अधिक अर्थोका संक्षेप होता है, उसे "ओज" कहते हैं / 62 // इति तं स विसृज्य धैर्यवान्नृपतिः सूनृतवाग्बृहस्पतिः / अविशद्वनवेश्म विस्मितः श्रुतिलग्नः कलहंसशंसितः // 63 // अन्वयः-धैर्यवान् सूनृतवाग्बृहस्पतिः स नृपतिः इति तं विसृज्य श्रुतिलग्नः कलहंसशंसितैः विस्मितः ( सन् ) वनवेश्म अविशत् // 63 // व्याख्या-धैर्यवान् =धैर्ययुक्तः, उपायलाभादिति शेषः / सूनृतवाग्बृहस्पतिः = सत्यप्रियवादेषु वाचस्पतिः, प्रगल्भ इति भावः / सः=पूर्वोक्तः, नृपतिः= राजा, नल इत्यर्थः / इति=इत्थं, तं=हंसं, विसृज्य प्रस्थाप्य, श्रुतिलग्नः= कर्णप्रविष्टः, कलहंसशंसितैः हंसभाषितः, विस्मितः=आश्चर्ययुक्तः सन्, वनवेश्म=उपवनभवनम्, अविशत् =प्रविष्टः // 63 // - अनुवाद - धैर्यसम्पन्न, सत्य और प्रियवचन बोलने में बृहस्पतिके समान राजा नलने उस ( हंस ) को विदा करके कानमें घुसे हुए हंसके भाषणोंसे आश्चर्ययुक्त होकर उपवनके भवन में प्रवेश किया // 63 // टिप्पणी-धैर्यवान् = धैर्यम् अस्ति यस्य सः, धैर्य+मतुप / सूनृतवाग्बृहः स्पतिः=सूनृताच ता वाचः ( क० धा०), "अथ सूनृते / सत्ये प्रिये"