SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ द्वितीया सर्ग: इत्यमरः / सूनृतवाक्ष बृहस्पतिः (स० त०), नृपतिः नृणां पतिः (ष० त०), विसृज्य=वि+ सृज् + क्त्वा (ल्यप्) / कलहंसशंसितैः कलहंसस्य शंसितानि, तैः ( ष० त०), "कादम्बः कलहंसः स्यात्" इत्यमरः / वनवेश्म वनस्य वेश्म, तत् (10 त• ) / अविशत् = "विश प्रवेशने" धातुसे लङ् + तिप् / "सूनृतवाग्बृहस्पतिः" इस पदमें लुप्तोपमा अलङ्कार है / / 63 / / अय भीमसुताऽवलोकनः सफलं कर्तुमहस्तदेव सः / क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ // 64 // अन्वयः-अथ सः अण्डजः तत् अहः एव भीमसुताऽवलोकनः सफलं कर्तुं क्षितिजमण्डलमण्डनायितं कुण्डिनं नगरं ययौ / / 64 // व्याख्या-अथ =यात्राऽर्थ राजाऽनुज्ञाऽनन्तरं, सः=पूर्वोक्तः, अण्डजः= पक्षी, हंस इत्यर्थः / तद् अहः एव तद् दिनम् एव, भीमसुताऽवलोकनः - भैमीदर्शनैः, सफलं साऽर्थकं, कर्तुं विधातुं, तस्मिन्नेव दिने दमयन्ती द्रष्टुमिति भावः / क्षितिमण्डलमण्डनायितं भूमण्डलाऽलङ्कारभूतं, कुण्डिनं = कुण्डिननामकं, नगरं-पुरं, ययो=जगाम / / 64 // अनुवाद-तब वह पक्षी ( राजहंस ) उसी दिन दमयन्तीके दर्शनोंसे सफल करनेके लिए भूमण्डलके अलङ्कारभूत कुण्डिन नगरको गया // 64 / / टिप्पणी-अण्डजः=अण्डे जातः, अण्ड +जन +ड: ( उपपद० ), "अण्डजाः पक्षिसर्पाद्याः" इत्यमरः / भीमसुताऽवलोकन: भीमस्य सुता (10 त० ), तस्या अवलोकनानि, तैः (10 त०)। सफलं = फलेन सहितं, तत् ( तुल्ययोगबहु० ) / कर्तुं कृ+तुमुन् / क्षितिमण्डलमण्डनायितंक्षितेः मण्डलं ( 10 त०)। मण्डनवत् आचरितं मण्डनायितम्, मण्डन+क्यङ्+ क्तः / ययौ या + लिट् + तिप् / इस पद्यमें "मण्डनायितम्" उपमा अलङ्कार है // 64 // प्रथमं पथि लोचनाऽतिथि पथिकप्राथिसिद्धिशसिनम् / कलसं जलसम्भृतं पुरः कलहंसः कलयाम्बभूव सः // 65 // अन्वयः- सः कलहंसः प्रथमं पथि लोचनाऽतिथि पथिकप्रार्थित सिद्धिशंसिनं जलसम्भृतं कलसं पुरः कलयाम्बभूव / / 65 / / व्याख्या-अथ श्लोकत्रयेण शुभशकुनान्याह-प्रथममित्यादिना / सः= पूर्वोक्तः, कलहंसः=राजहंसः, प्रथमम् = आदी, पथि - मार्गे, लोचनाऽतिथि =
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy