________________ द्वितीय: सर्ग: अन्वयः-अथवा इयं नः भवतः प्रवर्तना कथं पिष्टं न पिनष्टि, हि ग्रहणानां यथार्थता यथा सतां परार्थता स्वतः एव // 61 // व्याख्या-अथवा=पक्षान्तरे, इयम् =एषा, "भव पोत इवाऽवलम्बनम्" इत्यादिवाक्यघटिता, नः=अस्माकं, भवतः=तव, प्रवर्तना-प्रेरणा, कथं - केन प्रकारेण, पिष्टं चूर्णितमन्नादिकं, न पिनष्टि =न पुनश्चूर्णयति, भवतः स्वतः कर्तुत्वान्मदीया प्रेरणा पिष्टपेषणरूपेति भावः / उक्तमथं समर्थयते-स्वत इति / हि=यस्मात्कारणात्, ग्रहणानां ज्ञानानां, यथार्थता-याथार्थ्य, प्रामाण्य मिति भावः / यथा-इव, सतां सज्जनानां, पराऽर्थता=पराऽर्थप्रवृत्तिः, स्वत एव स्वभावत एव, यथा ज्ञानानां प्रामाण्यं स्वतस्तथैव सज्जनानां परार्थप्रवृत्तिः स्वभावत एव न तत्र प्रवर्तनाया अपेक्षेति भावः // 61 / / अनुवाद-अथवा आपको यह हमारी प्रेरणा पिष्टपेषणके समान क्यों नहीं लिए सज्जनोंकी प्रवृत्ति भी स्वभावतः होती है // 61 // टिप्पणी-नः="अस्मदो द्वयोश्च" इस सूत्रसे एकत्वकी उक्तिमें भी अस्मद् शब्दसे षष्ठीमें बहुवचन / "प्रवर्तना" इस कृदन्तपदके योगमें "उभयप्राप्ती कर्मणि" इस नियमसे "कर्तृकर्मणोः कृति" इस सूत्रसे कारकषष्ठीका निषेध होनेसे यह षष्ठी विभक्ति “षष्ठी शेषे" इस सूत्रसे हुई है। प्रवर्तना= प्रवर्तनम्, णिच् प्रत्ययान्त "वृतु वर्तने" धातुसे "ण्यासश्रन्थो युच्" इस सूत्रसे युच् ( अन ) प्रत्यय होकर टाप् / पिनष्टि -पिष्ल सञ्चूर्णने" धातुसे लट् + तिप् / यथार्थता=यथार्थस्य भावः / यथार्थ+तल + टाप् / परार्थता=परेषु अर्थः ( प्रयोजनम् ) येषां ते ( व्यधिकरणबहु० ), तेषां भावः, परार्थ + तल् +टाप् / स्वतः स्वस्मात् इति, स्व शब्दसे "अपादाने चाहीयरुहोः" इस सूत्रसे तसि प्रत्यय, यह अव्यय है। यहाँपर मीमांसकोंके सिद्धान्तके अनुसार ज्ञानका स्वतः प्रामाण्य माना गया है / नैयायिक ज्ञानका परतः प्रामाण्य मानते है। इस पद्यमें उपमा और अर्थान्तरन्यास दो अलङ्कारोंकी संसृष्टि है // 61 // तव वर्त्मनि वर्ततां शिवं, पुनरस्तु त्वरितं समागमः / अन्वयः-हे वयः ! तव वर्मनि शिवं वर्तताम् / त्वरितं पुनः समागमः वस्तु / अपिसाधय / ईप्सितम् साधय / समये वयं स्मरणीयाः // 62 // ग्याल्या-हे वयः हे हंस !, तव भक्तः, वर्त्मनि=मार्गे, शिवं मङ्गलं,