________________ 52 नैषधीयचरितं महाकाव्यम् व्याख्या-( हे हंस ! ) भृशतापभृता=अतिशयसन्तप्तेन, मया=नलेन, भवान् =त्वं, तुषारसारवान् = हिमश्रेष्ठांऽशसम्पन्नः, मरुत् =वायुः, आसादिप्राप्तः, सन्तापहरत्वादिति भावः / तथा हि धनिनाम् =आढयानां, कुबेरादीना. मिति भावः / इतरः-अन्यः, पद्मशङ्खादिः, सन्निधिः- उत्तमशेवधिः, पुनः= भूयः, सतां विदुषां, गुणवत्सन्निधिः एव - गुणिजनसामीप्यम् एव, सन्निधिःमहानिधिः / हे हंस ! मत्कृते त्वमेव शीतलमारुतः, अन्यस्तु दहनप्राय इति भावः / / 53 // अनुवाद-हे हंस ! अत्यन्त सन्तप्त मैंने हिमके श्रेष्ठ अंशसे सम्पन्न वायुके समान तुम्हें प्राप्त कर लिया है / कुबेर आदि धनियोंको पद्म, शङ्ख आदि निधि उत्तम निधि हैं; परन्तु विद्वान् पुरुषोंको गुणी पुरुषोंका सामीप्य ही श्रेष्ठ निधि है // 53 // टिप्पणी-भृशतापभृता-तापं बिभर्तीति तापभृत, ताप+भृ+क्विप् ( उपपद०)। भृशं तापभृत्, तेन ( सुप्सुपा० ) / तुषारसारवान्-तुषाराणां साराः (10 त०), ते सन्ति यस्य सः, तुषारसार+मतुप्+सु। आसादि= आइ+सद् + णिच् +लुङ ( कर्मणि )+त / धनिनां=धन+ इनि+आम् / "इभ्य आढयो धनी स्वामी" इत्यमरः / सन्निधिः-संश्चाऽसौ निधिः "सन्महतपरमोत्तमोत्कृष्टाः पूज्यमानः" इससे समास / "निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधे" इत्यमरः / निधिके नौ भेद हैं "महापद्मश्च पपश्च शङ्खो मकरकच्छपी / मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव // " जैसे-महापद्म, पद्म, शङ्ख, मकर, कच्छप, मुकुन्द, कुन्द, नील और खवं सतां= सन्तीति सन्तस्तेषाम्, अस् + लट् ( शतृ )+ आम् / “सत्ये साधी विद्यमाने प्रशस्तेऽभ्यहिते च सत्" इत्यमरः / गुणवत्सन्निधिः=गुणाः सन्ति येषां ते गुणवन्तः, गुण+मतुप / गुणवतां सन्निधिः (10 त० ), "सन्निधिः सन्निकर्षणम्" इत्यमरः / इस पद्यमें पूर्वार्द्ध और उत्तरार्द्ध में रूपक अलङ्कार है / दो रूपकोंकी संसृष्टि है / / 53 // शतशः श्रुतिमागतंव सा त्रिजगन्मोहमहौषधिर्मम / अधुना तव शंसितेन तु स्वदृर्शवाऽधिगताममि ताम् // 54 // अन्वय:-त्रिजगन्मोहमहौषधिः सा शतशो मम श्रुतिम् आगता एव / अधुना तव शंसितेन तु तां स्वदृशा एव अधिगताम् अवैमि // 54 //