________________ नैषधीयचरितं महाकाव्यम् पदेष्वनतः" इससे 'झ' के स्थान में अत् और पहलेके समान 'टि'का एत्व भी। . इस पद्य में "लोकयुगम्" "दृशो" "रमणीगुणाः" इन सब प्रस्तुत पदार्थोका व्यतिभान रूप एक क्रिया के साथ सम्बन्ध होनेसे तुल्योगिता और "व्यति- . भाते" इसका एकवचन, द्विवचन और बहुवचन होनेसे वचनश्लेष भी है / अतः इनका एकाश्रयोऽनुप्रवेशरूप सङ्कर है // 22 // नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे / अपि खननमानाऽश्चिते विदधाते रुचिगर्वदुविधम् // 23 // अन्वयः-नलिनं मलिनं विवृण्वती, पृषतीम् अस्पृशती तदीक्षणे अञ्जनाsञ्चिते ( सती ) खञ्जनम् अपि रुचिगर्वदुविधं विदधाते // 23 // व्याख्या-नलिनं कमलं, मलिनं मलीमसम्, असुन्दरमिति भावः, . विवृण्वती=कुर्वाणे, स्वसौन्दर्याऽतिशयेनेति भावः / पृषती=मृगीम्, अस्पृशती =स्पर्शम् अपि अकुर्वती, नेत्रसौन्दर्यस्पर्धायां मृगमपि दूरात्परिहरती इति भावः / तदीक्षणे-दमयन्तीनयने, अञ्चनाञ्चिते-कज्जलपरिष्कृते सती, खज. नम् अपि खञ्जरीटं पक्षिणम् अपि, रुचिगर्वदुर्विधं =सौन्दर्याऽभिमानदरिद्रं, विदधाते-कुर्वाते, दमयन्त्या नेत्रे सर्वथाऽप्यनुपमेये इति भावः // 23 // अनुवाद-कमलको मलिन बनाने वाले तथा ( सौन्दर्यमें ) मृगीका स्पर्श भी नहीं करते हुए दमयन्तीके नेत्र, कज्जलसे परिष्कृत होते हुए, खञ्जन पक्षी को भी सौन्दर्यसे अभिमानमें दरिद्र बना देते हैं // 23 // टिप्पणी-विवृण्वती विवृणुत इति, वि+वृण् + लट् ( शतृ )+ डीप् + / पृषती="हरिण्यां पृषती प्रोक्ता" इति रन्तिदेवः / अस्पृशती= स्पृशत इति स्पृशती, स्पृश + लट् ( शतृ )+ औ। न स्पृशती ( नन्)। तदीक्षणे तस्या ईक्षणे (प० त० ) / अञ्जनाऽञ्चिते=अञ्जनेन अञ्चिते (तृ० त०) / खञ्जनं="खरीटस्तु खञ्जनः" इत्यमरः / रुचिगर्वदुविध रुचे: गर्वः (10 त० ) तस्मिन् दुविधः तम् ( स० त० ) "निस्वस्तु दुविधो दीनो दरिद्रो दुर्गतोऽपि सः" इत्यमरः / विदधाते=वि+धा+ लट्+ आताम् / इस पद्य में दमयन्तीके नेत्रोंके कमल आदिके मलिनीकरण आदिसे सम्बन्ध न होनेपर भी सम्बन्धकी उक्तिसे अतिशयोक्ति और उपमानभूत नलिन आदिसे उपमेयभूत दमयन्तीके नेत्रोंके आधिक्य वर्णनसे व्यतिरेक अलङ्कार, इस प्रकार दो अलङ्कारोंके अङ्गाङ्गिभावसे सङ्कर अलङ्कार है // 23 //