________________ नैषधीयचरितं महाकाव्यम् / उत्पद्यमाननिमीलनयोः, स्वदृशो:-निजनेत्रयोः, खुरकण्ड्यनकैतवात् =शफघर्षणच्छलात्, सान्त्वनाम् =आश्वासनं, जनयन्ति=कुर्वन्ति, यथा लोके परपराजितान् भयानिमीलितनयनान् जनान् स्वजना हस्तपरामर्शादिना सान्त्वयन्ति तथैव मृगा अपि दमयन्तीनेत्रपराजिते स्वनेत्रे खुरकण्डूयनच्छलादाश्वासयन्तीति ___अनुवाद-मृग दमयन्तीके विशाल नेत्रोंकी शोभासे जीते गये / अतएव भय से मूंदे गये अपने नेत्रोंको खुरसे खुजलानेके बहानेसे आश्वासन देते हैं // 21 / / टिप्पणी-तदखर्वेक्षणशोभयान खर्वे ( नञ्० ), अखर्वे च ते ईक्षणे (क० धा० ), तस्या अखर्वेक्षणे (ष० त० ) तयोः शोभा, तया (ष० त० ) भयात् = हेतुमें पञ्चमी / उदयत्प्रमीलयोः= उदयन्ती प्रमीला ययोस्ते, तयोः (बह० ) / स्वदृशोः=स्वस्य दृशौ, तयोः (ष० त० ) / खुरकण्डयनकैतवात् =खुरैः कण्डूयनम् ( तृ० त०), "शर्फ क्लीबे खुरः पुमान्" इत्यमरः / खुरकण्डयनस्य कैतवं, तस्मात् (ष० त०)। जनयन्ति =जन+णि+लट+ झि / इस पद्यके कैतवाऽपहनुति और प्रतीयमानोत्प्रेक्षाकी संसृष्टि है // 21 // अपि लोकयुगं दृशावपि श्रुतदृष्टा रमणीगुणा अपि / श्रुतिगामितया दमस्वसुर्व्यतिमाते सुतरां धरापते // 22 // अन्वयः-हे धरापते ! दमस्वसुः लोकयुगं श्रुतिगामितया सुतरां व्यतिभाते, दृशौ अपि ( श्रुतिगामितया सुतरां व्यतिभाते ), श्रुतदृष्टो रमणीगुणा अपि ( श्रुतिगामिनया सुतरां व्यतिभाते ) // 22 // ___ व्याख्या–हे धरापते = हे भूपते ! दमस्वसुः = दमयन्त्याः , लोकयुगं = मातापितृकुलयुग्मं, श्रुतिगामितया=लोकश्रवणविषयत्वेन, जगत्प्रसिद्धत्वेनेति भावः / सुतराम् =अत्यर्थं, व्यतिभाते परस्परोत्कर्षेण विनिमयेन वा भाति (शोभते), दृशौ अपि-नेत्रे अपि, दमस्वसुरिति अध्याहार्यम् / श्रुतिगामितया कर्णाऽन्तविश्रान्ततया, सुतराम्=अत्यर्थं, व्यतिभाते परस्परोत्कर्षेण विनिमयेन वा भातः ( शोभेते ) / श्रुतदष्टाः=आकणिताऽवलोकिताः, लोकतः श्रताः स्वयं ज्ञाताश्चेति भावः / रमणीगुणा अपि सौन्दयौदार्यादयः स्त्रीगुणा अपि, विनिमयेन भान्ति ( शोभन्ते ) / दमयन्त्या मातृपितृकुलयुग्मं नेत्रयुगलं स्त्रीगुणा अति प्रसिद्धिपथागतत्वेन सुतरां शोभन्त इति भावः / / 22 / /