________________ द्वितीयः सर्गः अन्वयः-ते चिकुरप्रकरा जयन्ति, विदुषी सा यान् मूर्धनि बिभर्ति / पशुना अपि अपुरस्कृतेन चामरेण तत्तुलनां क इच्छतु / / 20 // व्याख्या-साम्प्रतं दमयन्त्याः केशादारभ्य वर्णनमुपक्रमते-चिकुरेति / ते प्रसिद्धाः, चिकुरप्रकराः=केशकलापाः, जयन्ति=सर्वोत्कर्षेण वर्तन्ते / विदुषी=पण्डिता, सा=दमयन्ती, यान् =चिकुरप्रकरान्, मूर्धनि शिरसि, बिति-धारयति / पशुना अपि=चतुष्पदेन अपि, मूर्खेण चमरीमृगेणाऽपीति भावः / अपुरस्कृतेन=अनादृतेन, पृष्ठभागस्थापितेन वा, चामरेण चमरीपुच्छेन सह तत्तुलना=चिकुरप्रकरसमीकरणं, कः जनः, इच्छतु - वाञ्छतु, न कोऽपीति भावः // 20 // . अनुवाद-वे केशकलाप उत्कर्षपूर्वक बढ़ते रहते हैं, पण्डिता दमयन्ती जिन्हें शिरमें धारण करती है / पशु चमरी मृगसे भी अनादृत पूंछमें रक्खे गये चामरसे उनकी तुलना करनेकी कौन इच्छा करे // 20 // टिप्पणी-चिकुरप्रकराः= चिकुराणां प्रकराः (10 त०), विदुषीवेत्तीति, विद् धातुसे लट्के शतृके स्थान में "विदेः शतुर्वसुः" इससे वसु आदेश, "उगितश्च" इससे स्त्रीत्वविवक्षामें डीप् "वसोः सम्प्रसारणम्" इससे सम्प्रसारण / मूर्धनि = मूर्धन् शब्दसे सप्तमीकी डिविभक्तिमें "विभाषा ङिश्योः" इससे अल्लोपके अभावपक्षमें रूप / उक्त सूत्रसे अल्लोप होनेपर "मूनि" ऐसा रूपभी बनता है। बिभर्ति भृ+ लट् + तिप् / अपुरस्कृतेन=न पुरस्कृतं, तेन ( न० ) तत्तुलनांतोलनं तोलनां, "तुल उन्माने" इस धातुसे "अतुलोपमाभ्याम्" ऐसे निपातनसे गुणका अभाव होकर णिजन्त तुल धातुसे "ण्यासश्रन्थो युच्" इससे युच् ( अन ) होकर टाप् / तेषां तुलना, ताम्, (100) / इच्छतु = इष+लोट + तिप् / “इषुगमियमां छः" इससे छत्व / इस पद्यमें उपमान चामरसे उपमेय दमयन्तीके चिकुरके उत्कर्षका वर्णन होनेसे व्यतिरेक ... अलङ्कार है // 20 // स्वदृशोर्जनयति सान्त्वनां खुरकण्डयनकतवान्मृगाः / जितयोरुदयत्प्रमीलयोस्तवखर्वेक्षणशोभया भयात् // 21 // अन्वयः-मृगाः तदखर्वेक्षणशोभया जितयोः भयात् उदयत्प्रमीलयोः स्वदृशोः खुरकण्डूयनकैतवात् सान्त्वनां जनयन्ति // 21 // व्याख्या-मृगाः हरिणाः, तदखर्वेक्षणशोभया=दमयन्तीविशालनेत्रकान्त्या, जितयोः पराभूतयोः, अतएव भयात्-भीतेः, उदयत्प्रमीलयो: