SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ प्रथमः सर्गः प्राणिवधः = प्राणिनः वधः ( ष० त० ) / विश्वासजुषां = विश्वासं जुषन्त इति वश्वासजुषः, तेषाम्, विश्वास + जुष् + क्विप् + आम् / द्विषां = द्विषन्ति ते द्विषः, तेषाम्, द्विष् + क्विप् + आम् / निबर्हणं = "प्रमापणं निवहणं निकारणं विशारणम् / " इत्यमरः / विशिष्य = वि + शिष् +क्त्वा ( ल्यप् ) / इस पद्यमें अर्थान्तरन्यास और अर्थापत्तिका सङ्कर है // 131 // पदे पदे सन्ति भटा रणोद्धटा न तेषु हिसारस एष पूर्यते ? / घिगोदशं ते नपतेः कुविक्रम पाश्रये यः कृपणे पतत्त्रिणि // 132 // अन्वयः - रणोद्भटा: मटाः पदे पदे सन्ति, एष हिंसारसः तेषु न पूर्यते ? नपतेः ते इदृशं कुविक्रमं धिक; यः कृपाऽऽश्रये कृपणे पतत्त्रिणि (क्रियते) / 132 // व्याख्या - रणोद्भटा: - युद्धप्रचण्डाः, भटाः = योधाः, पदे पदे = प्रतिपदं, सन्ति = वर्तन्ते / एषः = अयं, हिंसारसः - वधरागः, तेषु = भटेषु, न पूर्यते - परिपूर्णो न भवति ? इति काकुः / नृपतेः - राज्ञः, ते = तव, ईदृशम = एतादृशम्, अवध्यवधरूपमिति भावः / कुविक्रम = कुत्सितपराक्रम, धिक्, कुविक्रमस्य निन्देत्यर्थः / यः कुविक्रमः, कृपाऽऽश्रये = करुणाविषये, कृपणे = दीने, पतत्त्रिणि -पक्षिणि, क्रियत इति शेषः / / 132 // ___ अनुवाद:-(हे राजन् ) युद्ध में प्रचण्ड योद्धा पग-पगमें मौजूद हैं, यह हिंसाराग क्या उनमें पूर्ण नहीं होता है ? प्रजापालक आपके इस कुत्सित पराक्रम को धिक्कार है, जो कि करुणाके विषय दीन पक्षीमें किया जा रहा है / / 132 // टिप्पणी-- रणोद्भटाः = रणेषु उद्भटाः ( स० त.)। भटा: = "भटा योधाश्च योद्धारः" इत्यमरः / पदे पदे = वीप्सामें द्विरुक्ति / सन्ति = अस+ लट् + झि / हिसारसः = हिंसाया रसः (10 त०), "शृंगारादी विषे वीर्य गुणे रागे द्रवे रसः / " इत्यमरः / पूर्यते = पूरी+लट् + श्यन् +त / नपते - नणां पतिः, तस्य (ष० त०)। कुविक्रम = कुत्सितः विक्रमः, तम्, "कुगति. प्रादयः" इससे समास / “धिक्" के योगमें "घिगुपर्यादिषु त्रिषु" इससे द्वितीया / कृपाऽऽभये = कृपाया आश्रयः, तस्मिन् ( 10 त०), पतत्त्रिणि = पतत्त्र+इनि +डि / 132 // फलेन मूलेन च वारिभूवहां मनेरिवेत्थं मम यस्य वृत्तयः / स्वयाऽध तस्मिन्नपि दण्डधारिणा कथं न पत्या धरणी हणीयते ? // 133 // अन्वयः यस्य मम मुनेः इव वारिभूरुहां फलेन मलेन च इत्यं वृत्तयः, तस्मिन् अपि दण्डधारिणा पत्या त्वया अद्य धरणी कथं न हणीयते ? // 32 // व्याख्या यस्य, मम - हंसप्य, मुनेः इव =ऋषेः इव वारिभूरुहां = जल
SR No.032779
Book TitleNaishadhiya Charitam
Original Sutra AuthorN/A
AuthorSheshraj Sharma
PublisherChaukhambha Sanskrit Series Office
Publication Year
Total Pages1098
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy