________________ 12 नैषधीयचरितं महाकाव्यम् भूम्युत्पन्नानां, पमवृक्षादीनामित्यर्थः, फलेन-सस्येन, मूलेन च = कन्दादिना च इत्थम् = अनेन प्रकारेण, वृत्तयः = जीविकाः, सन्तीति शेषः / तस्मिन् अपि = मुनिसदृशे अपि, निर्दोषेऽपीति शेषः, दण्डधारिणा = निग्रहकारिणा, अदण्डयदण्डकेनेत्यर्थः / पत्या = पालकेन, त्वया = भवता, राज्ञेत्यर्थः / अब अस्मिन्दिने घरणी = धरित्रि, कथं = केन प्रकारेण, न हृणीयते = न लज्जते, दुर्वृत्ते भर्तरि वर्लज्जत इति भावः // 133 // अनुवाद:-जल और वृक्षोंसे उत्पन्न कन्द और फलसे मुनिके समान मेरी वृत्ति है वैसे मेरे पति दण्ड धारण करनेवाले पालक आपसे पृथ्वी क्यों नहीं लज्जा करती है ? // 133 // . टिप्पणी-वारिभूरुहां = वारि च भूश्च वारिभुवी ( द्वन्द्वः), वारिभुवोः रोहन्तीति वारिभूरुहः, तेषाम्, वारिभू+रह+क्विप् ( उपपद० )+आम् / वृत्तयः = "वृत्तिर्वर्तनजीवने" इत्यमरः / दण्डधारिणा = दण्डं धारयतीति तच्छीलः दण्डधारी, तेन दण्ड+ धृन्+णिच् +णिनि+टा (उप०)। हृणीयते = "हणी रोषणे लज्जायां च" इस कण्ड्वादि धातुसे डित् होनेसे आत्मनेपद होकर लट् + त / इस पद्यमें उपमा अलंकार है॥ 133 // इतीदशस्तं विरचय्य वाङ्मय: सचित्रवलक्ष्यकृपं नपं खगः / व्यासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगा गिरः / / 134 // अन्वयः-स खगः इति तं नृपम् ईदृशः वाङ्मयः सचित्रवलक्ष्यकृपं विरचय्य दयासमुद्रे तदाशये कारुण्यरसाऽऽपगाः गिरः अतिथीचकार // 134 // व्याख्या - सः = पूर्वोक्तः, खगः = पक्षी, हंस इत्यर्थ, इति = इत्थं, तं = पूर्वोक्तं, नपं = राजानं, नलमित्यर्थः / ईदर्शः = एतादर्शः, पूर्वोक्तरिति भावः / वाङ्मयः = वाग्विकारः दोषोद्घाटकरिति भाव: / सचित्रवलक्ष्यकृपम् आश्चर्यलज्जातिशयकरुणासहितं, विरचय्य = विधाय, दयासमुद्र = करुणासागरे, तदाशये =नलचित्ते, कारुण्यरसापगा: = करुणारस नदीस्वरूपाः, गिरः = वाणीः, अतिथीचकार=प्रवेशयामासेत्यर्थः / समुद्रे नदीप्रवेशो युक्त इति भावः // 13 // ___ अनुवाद:-उस पक्षी ( हंस ) ने इस प्रकार राजा नलको ऐसे वचनोंसे आश्चर्य, लज्जा और करुणासे युक्त बनाकर दयाके समुद्र के समान उनके चित्तमें करुणरसकी नदियोंके समान वाणियोंका प्रवेश कराया // 134 // गिणी-वाङ्मयः = वाचां विकारा वाङमयानि, तैः "एकाऽचो नित्यम्" / तकसे मयट् प्रत्यय / सचित्रवलक्ष्यकृपं = विलक्षस्य भावो वैलक्ष्यम्