________________ - प्रथमः सर्गः 129. टिप्पणी-जातरूपच्छदजातरूपता-जातं रूपं ( सौन्दर्यम् ) यस्य सः जातरूपः ( बहु० ), तस्य भावो जातरूपता, जातरूप+तल+टाप् / जातरूपस्य छदाः (10 त० ), "चामीकरं जातरूपं महारजतकाचने / " इत्यमरः / जातरुपच्छदैः जातरूपता ( तृ० त०)। स्तुवन् = स्तोतीति, टु+लट् ( शतृ०) +सु / जनाऽधिनाथः = जनानाम् अधिनाथः (10 त०) / करपञरस्पृशाकरः परम् इव ( उपमित०)। 'पिजड़े के समान हाथ' कहनेसे उसकी शिथिलतासे पीडाके अभावकी सूचना होती है। करपञ्जरं स्पृशतीति करपञ्जरस्पृक्, तेन, करपजर-उपपदपूर्वक "स्पृश' धातुसे "स्पृशोऽनुदके क्विन्" इस सूत्रसे क्विन् प्रत्यय / मानसौकसामानसम् ओकः ( स्थानम् ) यस्य स मनसोकाः, तेन ( बहु०) / "हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः।" इत्यमरः / अवादि=वद+लुङ् ( कर्ममें )+त। इस पद्यमें "करपञरस्पृशा" इसमें उपमा अलङ्कार है और "जातरूप... ... ...." ..... .."जातरूप" यहापर यमक अलंकार है, उसका लक्षण है__ "सत्यर्थे पृथगर्थायाः स्वरव्यञ्जनसहतेः। क्रमेण तनवावत्तिर्यमकं विनिगद्यते // " सा० द. 10-10 // 129 // षिगस्तु तष्णातरलं भवन्मनः समीक्ष्य पक्षान्मम हेमजन्मनः / तवार्णवस्येव तुषारशोकर वेवमोभिः कमलोदयः कियान् ? // 130 // अन्वयः-हेमजन्मनः मम पक्षान् समीक्ष्य तृष्णातरलं भवन्मनः धिक् अस्तुः, तुषारशीकरः अर्णवस्य इव तव अमीभिः कियान् कमलोदयः भवेत् ? / / 130 // - व्याख्या-अथ हंसः पद्य चतुष्टयेन राजानमुपालभते --धिगिति / हेमजन्मनः #सौवर्णान्, मम = हंसस्य, पक्षान् =पतत्त्राणि, समीक्ष्य - दृष्ट्वा, तृष्णातरलं लालसाचंञ्चलं, भवन्मनः धिक् = खच्चित्तं, धिक्, भवन्मनसो निन्देत्यर्थः / मस्तु = भवतु, तुषारशीकरः - हिमकर्णः, अर्णवस्थ इव - समुद्रस्य इव, तव = भवतः, अमीभिः = एभिः, हेमजन्मभिः पक्षरिति भावः, कियान् = किंपरिमाणः, कमलोदयः-भवत:-कमलायाः = लक्ष्म्याः , समुद्रस्य-कमलस्य = जलस्य, उदयः वृद्धिः, भवेत् स्यात, अतिस्वल्पः स्यादिति भावः / अगाधजल: समुद्रो यथा जलबृद्धयर्थ तुषारशीकरं नाद्रियते तथैव आढयतमेन भवताऽपि मत्पक्षसुवर्ण नादरणीयमिति भावः / / 130 // मनुवाक-सुनहरे मेरे पंखोंको देखकर तृष्णासे चञ्चल आपके मनको ९०प्र०