________________ प्रथमः सर्गः पतत्त्रिणा तचिरेण वञ्चितं धियः प्रयास्याः प्रविहाय पल्वलम् / चलत्पदाम्भोरुहनूपुरोपमा. चुकून कूले कलहंसमण्डली / / 127 // अन्वयः-रुचिरेण पतत्त्रिणा वञ्चितं तत् पल्वलं प्रविहाय प्रयान्त्याः श्रियः चलत्पदाम्भोरुहनपुरोपमा कलहंसमण्डली कले चुकुज // 127 // व्याख्या- रुचिरेण-सुन्दरेण, पतत्त्रिणा-पक्षिणा, हंसेनेति भावः, वञ्चितं = विरहितं, तत् = पूर्वोक्तं, पल्वलं - तडागं, प्रविहाय = संत्यज्य, प्रयान्या:- गच्छन्त्याः, श्रियः = लक्ष्म्याः , चलत्पदाऽम्भोरुहनपुरोपमा गच्छच्चरणकमलपादाऽङ्गदसाम्ययुक्ता, कलहंसमण्डली = राजहंससंहतिः, कूले = तडागतटे, चुकूज = अव्यक्तशब्दं चकार // 127 // अनुवादः-सुन्दर पक्षी (राजहंस ) से रहित उस तालाबको छोड़कर जाती हुई लक्ष्मीके चलते हुए चरणकमलोंके नूपुरके सदृश राजहंससमूह किनारे में शोर मचाने लगा / / 127 // टिप्पणी-प्रविहाय = प्र+वि+हा+क्त्वा ( ल्यप् ) / प्रयान्त्याः - प्रयातीति प्रयान्ती, तस्याः, प्र+या+लट् + शतृ+ ङी+उस् / चलत्पदाम्भोकहनपुरोपमा = अम्भसि रोहत इति अम्भोरुहे. अम्भस् + रह+कः / पदे अम्भोरहे इव ( उपमित०)। चलती च ते पदाम्भोरुहे (क० धा० ), सयोः नपुरी (ष० त०), "पादाङ्गदं तुलाकोटिर्मजीरो नूपुरोऽस्त्रियाम् / " इत्यम': / चलत्पदाम्भोरुहन पुराभ्याम् उपमा ( सादृश्यम् ) यस्याः सा (व्यधिकरणबहु०)। कलहंसमण्डली = कलवाचो हंसाः कलहंसाः (मध्यमपदलोपी स०)। 'कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे।" इति विश्वः / लहंसानां मण्डली (10 त०)। चुकज = "कूज अव्यक्ते शब्द" इस धातुसे लिट् + तिप् (णल ) / इस पद्यमें शोभा और लक्ष्मीके भेद होनेपर भी श्री शब्दके श्लेषसे अभेद अध्यवसाय होनेसे अतिशयोक्ति और उपमा इन दोनोंका अङ्गाङ्गिभाव होनेसे सङ्कर अलधार है / / 127 // न वासयोग्या वसुषेयमीदृशस्त्वमङ्ग ! यस्याः पतिरुजितस्थितिः। इति प्रहाय क्षितिमाधिता नभः खगास्तमाचुक्रशुरारवः खलुः // 128 // अन्वयः- इयं वसुधा वासयोग्या न, अंग ! यस्या उज्झितस्थितिः ईदृशः त्वं पतिः इति खगाः क्षिति प्रहाय नभ आश्रिताः ( सन्तः ) तम् आरवैः आचु- . ऋशुः खलु // 128 //