________________ प्रथमः सर्गः महीयसः पजमण्डलस्य यश्छलेन गोरस्य च मेचकस्य च। नलेन मेने सलिले निलोनयोस्त्विषं विमुञ्चन्विषुकालकूटयोः // 113 // अन्वयः यः महीयसः गोरस्य मेचकस्य व पङ्कजमण्डलस्य छलेन सलिले निलीनयोः विधुकालकटयोः त्विषं विमुञ्चन् (इव) नलेन मेने / / 113 // व्याख्या-यः = तडागः, महीयसः = महत्तरस्य, गोरस्य = श्वेतस्य, मेचकस्य च नीलस्य च, पंकजमण्डलस्य = कमलसमूहस्य, शुक्लनीलकमलयोरिति भावः / छलेन % कैतवेन, सलिले = जले, निलीनयोः = निमग्नयोः, विधुकालक्टयोः = चन्द्रकालकूटविषयोः सिताऽसितयोः, त्विषं = कान्ति, विमुञ्चन् = विसजन, (इव ) नलेन = नैषधन, मेने = संभावितः // 113 // अनुवावा-जिस तालाबको बड़ेसे सफेद और नीले कमलसमूहके बहानेसे जलमें डूबे हुए चन्द्रमा और कालकूट विषकी कान्तिको छोड़ते हुएके समान नलने सम्भावना की // 113 // टिप्पणी-महीयसः = अतिशयेन महत् महीयः, तस्य, महत + ईयसुन + डस् / पंकजमण्डलस्य - पंकजानां मण्डलं, तस्य (प० त०), निलीनयो:-नि+ ली+क्त+ ओस् / विधुकालकूटयोः = विधुश्च कालकूटं च, तयोः ( द्वन्द्वः ) / विमुञ्चन् = विमुञ्चतीति, वि+मुच् + लट् ( शतृ ) + सु / “शेमुचादीनाम्" इससे नुम् आगम / मेने = मन् +लिट (कर्ममें)+त / इस पद्यमें कैतवापनुति और उत्प्रेक्षा इन दोनों अलङ्कारोंका अङ्गाङ्गिभाव होनेसे संकर अलङ्कार है / / 113 / / चलोकृता यत्र तरङ्गरिङ्गणरबालशवाललतापरम्पराः / ध्रुवं वधुर्वाडवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमताम् // 114 / / अन्वयः-यत्र तरङ्गरिङ्गणः चलीकृता अबालशवाललतापरम्पराः वाडवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमतां दधुः ध्रुवम् // 114 // व्याख्या-यत्र यस्मिन्, तडाग इति भावः / तरंगङ्गिणः = भंगकम्पनः, चलीकृताः = चञ्चलीकृताः, अबालशवाललतापरम्पराः = कठोरजलनीलीवल्लीपक्तयः, वाडवहव्यवाडवस्थितिप्रराहत्तमभूमधमतां = वडवाऽनलाऽवस्थानबहिःप्रादुर्भवत्तमबाहुल्यधमतां, दधुः = धारयामासुः, ध्रुवम् = इव, बहिरुत्थितधूमपटलवद्वभुः // 114 // ___ अनुवाद:-जिस तालाबमें तरगोंके कम्पनसे चञ्चल बनाई गयी कठोर