________________ नैषधीयचरितं महाकाव्यम् पौरुषम्, पुरुष+ अण् / गायन्तीति गायनयः, "गै शब्दे" धातुसे "ण्युट् च"इससे ण्युट् प्रत्यय और स्त्रीत्वविवक्षामें टित्वात् "टिड्ढाण" इत्यादि सूत्रसे डीप / अगायनयः गायनयः यथा संपद्यन्ते तथा कृताः, गायनी+वि++क्त+टाप् / तत्पौरुषस्य गायनीकृताः (10 त० ) / शारिका: = "सारिकाः" ऐसा भी रूप होता है / स्वराऽमृतेन - स्वरः अमृतम् इव स्वराऽमृतं, तेन "उपमितं व्याघ्रादिभिः सामान्याप्रयोगे" इस सूत्रसे समास / उपजगुः= उप+7+ लिट् +झि ( उस् ) / इस पद्यमें "स्वगऽमृतेन" यहांपर उपमा अलंकार है // 103 // इतीष्टगन्धाऽऽढचमटन्नसो वनं पिकोपगीतोऽपि शकस्तुतोऽपिच।। अविन्वताऽऽमोदभरं बहिः परं विवर्भसुभ्रूविरहेण नाऽन्तरम् // 104 // अन्वयः- इति इष्टगन्धाऽऽढयं वनम् अटन् असो पिकोपगीतः अपि शुकस्तुत: अपि च पर बहिः आमोदभरम् अविन्दत: विदर्भसुभ्रूविरहेण आन्तरम् आमोदभरं न अविन्दत / / 104 // व्याख्या-इति = इत्थम्, इष्टगन्धाऽऽढयम् अभीष्टसौरभसम्पन्न, वनम् = उपवनम्, अटन् गच्छन, असौ =नलः, पिकोपगीतः अपि-कोकिलगीतिविषयी. कृतः अपि, शुकस्तुतः अपि च = कीरस्तुतिविषयीकृतः अपि च, परं = केवलं, बहिः= बाह्यम्, आमोदभरं = सौरभ्याऽतिरेकम्, अविन्दत = अलभत, विदर्भसुभ्रूविरहेण = दमयन्तीवियोगेन, आन्तरम् = अन्तश्चरं, मानसमिति भावः, आमोदभरम = आनन्दाऽतिरेकमिति भावः, न अविन्दत = न अलभत, प्रत्युत दुःखमेवाऽनुभूतवानिति भावः // 104 // ___ अनुवाद:-इस प्रकार से अभीष्ट सोरमसे सम्पन्न उपवन में भ्रमण करते हए नलने कोयलके गानेसे और तोते की स्तुतिसे भी केवल बाहरी हर्षविशेषका अनुभव किया, परन्तु दमयन्तीके वियोगसे भीतरी हर्षविशेषका अनुभव नहीं किया / / 104 / / टिप्पणी-इष्टगन्धाऽऽढयम् = इष्टचाऽसौ गन्धः (क० धा०), तेन आढयं, तत् ( तृ० त० ) वनम् = अकर्मक "अट" धातुके योगमें "अकर्मक धातुभिर्योगे देश: कालो भावो गन्तव्योऽध्वा च कर्मसंज्ञक इति वाच्यम्" इससे कर्मसंज्ञक होकर द्वितीया / अटन् = अटतोति, अट+लट् ( शतृ )+सु / पिकोपगीतः = पिकः उपगीतः / तृ० त.)। शुकस्तुतः = शुकः स्तुतः ( तृ० त० ) / आमोदभरम् = आमोदस्य भरः, तम् (10 त०) "आमोदो गन्धहर्षयोः" इति विश्वः / अविन्दत="विद्ल लाभे" धातुसे लङ्+त / विदर्भसुभ्रूविरहेण = शोभने धूवी