________________ 104 नैषधीयचरितं महाकाव्यम् / टिप्पणी--प्रतीष्टकामज्वलदस्त्रजालकं = ज्वलन्ति च तानि अस्त्राणि ज्वलदस्त्राणि ( क० घा० ), तेषां जालकानि (10 त०), "क्षारको जालक बलीबे" इत्यमरः / कामस्य ज्वलदस्त्रजालकानि (ष० त०)। प्रतीष्टानि कामज्वलदस्त्रजालकानि येन, तम् (बहु०)। अशोकम् = अविद्यमानः शोकः यस्य सः, तम् ( नम्बहु० ) / "वजुलोऽशोके". इत्यमरः। अर्थाऽन्वितनामताऽऽशया = नाम्नो भावो नामता, नाम+तल् + टाप् / अर्थेन अन्विता (तृ० त० ) / अर्थाऽन्विता चाऽसौ नामता ( क० धा० ), तस्या आशा तया (10 गृहरक्षित्रोः" इत्यमरः / गृहशोचिनः = गृहं शोचन्तीति गृहशोचिनः, तान्, गृह + शुच्+णिनि ( उपपद० )+ शस्। "नृहं गृहाश्च भूम्नि कलत्रेऽपि च सद्मनि / " इति मेदिनी। अत एव--"न गृहं गृहमित्याहुर्गहिणी गृहमुच्यते।" अर्थात् गृहको गृह नहीं कहते हैं, पत्नीको "गृह" कहते हैं ऐसी लोकोक्ति है / अध्वगान् = अध्वान गच्छन्तीति अध्वगाः; तान्, अध्वन-उपपदपूर्वक 'गम्' धातुसे "अन्ताऽत्यन्ताऽध्वदूरपारसर्वाऽनन्तेषु डः" इस सूत्रसे 3 प्रत्यय (उपपद०)। "अध्वनीनोऽध्वगोऽध्वन्या पान्थः पथिक इत्यपि / " इत्यमरः / अवन्तम् = अवतीति अवन्, तम्-अव + लट् ( शतृ )+ अम् / अमन्यत = मन + लङ् +त / इस पद्यमें उत्प्रेक्षा अलङ्कार है / / 101 // विलासवापीतटवीचिवादनास्पिकालिगीतेः शिखिलास्यलाघवात् / वनेऽपि तौर्यत्रिकमारराध तं, क्व भोगमाप्नोति न भाग्यभाग्जनः // 102 / / अन्वयः--विलासवापीतटवीचिवादनात् पिकाऽलिगीतेः शिखिलास्यलाघवात् वने अपि तं तौर्यत्रिकम् आरराध, भाग्यभाक् जनः क्व भोगम् न आप्नोति / / 102 / / व्याख्या-विलासवापीतटवीचिवादनात् = विहारदीपिकातीरतरङ्गनादात्, पिकालिगीतेः = कोकिलभ्रमरगानात्, शिखिलास्यलाघवात्-मयूरनृत्यनपुण्यात्, वने अपि = उपवने अपि, तं = नलम्, तौर्यत्रिकं = नृत्यगीतवाद्य त्रयम्, आरराध = आराधयामास, तथा हि- भाग्यभाक् = भाग्यवान्, जनः लोकः, क्व = कुत्र, स्थाने गहे वनेऽपि वा इति शेषः, भोगं = सुखं, न आप्नोति = न प्राप्नोति, सर्वत्रैव सुखं प्राप्नोतीति भावः / / 102 // अनुवादः--बिहारकी बावलीके किनारेमें तरङ्गोंके शब्दसे ( वादनसे ), कोयल और भौंरोंके गानेसे, मयूरोंके नत्यकी निपुणतासे उपवनमें भी महाराज नलकी नृत्य, गीत और वाब इन तीनोंने सेवा की। भाग्यवान बन कहाँ सुखको प्राप्त नहीं करते हैं ? // 102 / /