________________ 102 नैषधीयचरितं महाकाव्यम् पुष्परसः कुसुमरसः, मकरन्दरित्यर्थः, उपवनवाताऽऽनीतैरिति शेषः / सुधीकृतम् अमृतीकृतं, तथा केतकरेणुभिः = केतकीपुष्परजोभिः, सितं = शुक्लं, विनिमित= कृतम्, इत्थं च-अहमहः = दिनतेजः आतप एव, कौमुदी = चन्द्रिका, वियोगिने = विरहिणे, तस्मै = पूर्वोक्ताय, नृपाय = नरेशाय, नलायेति भावः / मुदा हर्षान् न अधत्त-न कृतवती, प्रत्युत उद्दीपनमेव चकारेति भाव: / / 99 // __ अनुवादः--उद्यानकी हवाओंसे ठण्डा किया गया, फूलोंके रसोंसे अमृतके समान किया गया, केतकी पुष्पोंके परागोंसे सफेद बनाया गया प्रकाश ही चांदनीने वियोगी नलको हर्षप्रवान नहीं किया // 99 // टिप्पणी-वनाऽनिलः = वनस्य अनिलाः, तः ( ष० त०) : हिमितं हिमं कृतम्, "हिम" शब्दसे "तत्करोति तदाचष्टे" इससे णिच् प्रत्यय होकर कर्ममें क्त प्रत्यय / पुष्परसैः = पुष्पाणां रसाः, तः ( ष० त०)। सुधीकृतम् = असुधा सुधा यथा संपद्यते तथा कृतम्, सुधा+च्चि++क्तः / केतकरेणुभिः केतक्या विकाराः ( पुष्पाणि ) केतकानि, केतकी शब्दसे "तस्य विकारः" इससे अण् प्रत्यय और उसका "पुष्पमूलेषु बहुलम्" इससे लुप् / केतकानां रेणवः, तैः (10 त० ) विनिर्मितं =वि+निर+मा+क्तः / अहर्महः = अह्नः महः (10 त०) "रोऽसुपि" इस सूत्रसे रेफ आदेश / अधत्त = धा+लङ्+त / इस पद्यमें अहमहमें कौमुदीका आरोप होनेसे रूपक अलङ्कार है / / 99 // वियोगभाजोऽपि न पस्य पश्यता तदेव साक्षादमतांऽशुमाननम् / पिकेन रोषाऽरुणचक्षुषा मुहुः कूहूरुताऽऽहूयत चन्द्रवैरिणी // 10 // अन्वयः-वियोगभाजः अपि नपस्य तत् आननम् एव साक्षात् अमृतांऽशुं पश्यता ( अत एव ) रोषाऽरुणचक्षुषा पिकेन कुहूरुता चन्द्रवंरिणी मुहुः आहूयत // 10 // व्याख्या--वियोगभाजः अपि -वियोगिनः अपि, नपस्य राज्ञः, नलस्येत्यर्थः / तत्, आननम् एवमुखम् एव, साक्षात्-प्रत्यक्षम्, अमृतांऽशु-चन्द्रं, पश्यताविलोकयता, अत एव रोषाऽरुणचक्षुषा = कोपरक्तनयनेन, वियोगेऽप्ययं चन्द्रतां न मुञ्चतीति रोषहेतुर्बोद्ध व्यः / पिकेन = कोकिलेन, कहूरुता = कुहू शब्देन, अमा.वास्यावाचकशब्देन वा, चन्द्रवैरिणी = कुहूः, अमावास्या इति भावः / मुहुः - वारं वारम्, आहूयत = आहूता ( किम् ) // 10 // अनुवाद:--वियोगी होनेपर भी नलके मुखको ही प्रत्यक्ष चन्द्र देखते हुए