________________ नैषधीयचरितं महाकाव्यम् गलस्परागं अमिङ्गिभिः पतत् प्रसक्तभृङ्गावलि नागकेशरम् / समारनाराचनिघर्षणस्खलज्ज्वलत्कणं शामिव व्यलोकयत् // 12 // अन्वयः-स गलत्परागं भ्रमिङ्गिभिः पतत् प्रसक्तभृङ्गावलि नागकेशरं मारनाराचनिघर्षणस्खलज्ज्वलत्कणं शाणम् इव व्यलोकयत् / / 92 / / व्याल्या-सः = नल-, गलस्परागं = निर्यद्रजस्कं, भ्रमिभङ्गिभिः = भ्रमण. प्रकारः, उपलक्षितं, पतत् = भ्रश्यत् प्रसक्तभङ्गावलि - सक्तभ्रमरकुलं; नागकेशरं = कुसुमविशेषं, मारनाराचनिघर्षणस्खलज्ज्वलत्कणं = स्मरशरकर्षणलुठद्दीप्यमानं स्फुलिङ्ग, शाणम् इव = निकषम् इव, व्यंलोकयत् = अपश्यत् // 92 // अनुवाद-नलने गिरते हुए परागवाले, धूमकर आती हुई भ्रमरपडितसे सम्बद्ध, गिरे हुए नागकेशरके फूलको कामदेवके बाणसंघर्षणसे निकलते हुए जलते हुए स्फुलिङ्गसे युक्त कसोटीके समान देखा // 92 // टिप्पणी-गलत्परागं = गलन्तः परागा यस्माद, तत् (बह.)। भ्रमिभनिमिः = भ्रमेः भङ्गिमः, ताभिः (तृ० त०)। पतत् = पततीति, पत्+ लट् (शतृ) / प्रसक्तभङ्गाऽऽवलि = भृङ्गाणाम् आवलिः (10 त०)। प्रसवता भङ्गावलिः यस्मिन्, तत् (बहु० ) / नागकेसरं नागकेसरस्य विकारः (पुष्पम्) नागकेसरं, "तस्प विकारः" इससे अण् प्रत्यय, "पुष्पमूलेषु बहुलम्" इससे उसका लुक / मारनाराचनिघर्षणस्खलज्ज्वलत्कणं-मारस्य नाराचाः (ष० त०), तेषां निघर्षणं (ष० त०), तस्मात् स्खलन्तः (ष० त.)। मारनाराचनिघर्षणस्खलन्तः ज्वलन्तः कणाः यस्यः सः, तम् (बहु० ) / शाणम = "शाणस्तु निकषः कषः / " इत्यमरः / व्यलोकयत् = वि -लोक + णिच् + लङ्+तिप् / इस पद्य में उत्प्रेक्षा अलङ्कार है // 92 / / तवनमुद्दिश्य सुगन्धि पातुकाः शिलीमुखालीः कुसुमा गुणस्पृशः / स्वचापदुनिर्गतमार्गणभ्रमात्स्मरः स्वनन्तीरवलोक्य लज्जितः // 93 / / अन्वयः-सुगन्धि तदङ्गम् उद्दिश्य गुणस्पृशः कुसुमात् पातुकाः स्वनन्तीः शिलमुखालीः, अवलोक्य स्मरः स्ववापदुर्निर्गतमार्गणभ्रमात् लज्जितः / अभवत् ) // 93 / / व्याल्या- सुगन्धि = मनोहरगन्धं, तदङ्गं = नलाऽङ्गम्, उद्दिश्य = लक्ष्यीकृत्य, गुणस्पृशः गन्धादिस्पृशः, मौर्वीस्पृशश्च, कुसुमात् = पुष्षात्, पातुकाः 3 धावन्तीः, स्वनन्ती:= ध्वनन्ती:, शिलीमुखाली भ्रमरपङक्ती:, बाणपतीच, अवलोक्य = दृष्टवा, स्मर:= कामदेवः, स्वचापदुनिर्गतमार्गणभ्रमात् = स्वपुष्पधनुर्विषमनिःसृतबाणभ्रान्तेः, लज्जितः = वीडितः, अभवदितिशेषः // 93 / /