________________ दशमः सर्गः टिप्पणी-इतरकारुजेयः = इतरेण कारुणा जेयः (तृ० तत्पुरुषः ) 'कर्तृकरणे कृता बहुलम्' इत्यनेन समासः / स्मरकिङ्करेण = स्मरस्य किङ्करः स्मरकिङ्कर स्तेन तथोक्तेन (10 तत्पु० ) निर्जीयते-निपूर्वकात् जयतेः कर्मणि लट् / भाव:-स्मरकृतिरेषा भैमी न विधेः स हीतरेविनिर्जेयः / स्मरकिङ्करवयसाऽसो निर्जीयते किमुत कामेन // अनुबाद:-यह दमयन्ती कामदेव की ही रचना है ब्रह्मा की नहीं क्योंकि उसके शिल्पी को सर्वश्रेष्ठ अन्य शिल्पियों से अजेय होना चाहिये ब्रह्मा तो कामदेव के किङ्कर यौवनावस्था से भी जीत लिया जाता है कार से तो कहना ही क्या // 131 // गुरोरपीमां भणदोष्ठकण्ठ-निरुक्तिगर्वच्छिदया विनेतुः / श्रमः स्मरस्यैष भवं विहाय मुक्तिं गतानामनुतापनाय // 132 // अन्वया-गुरोः अपि इमां भणदोष्ठकण्ठनिरुक्तिगर्वच्छिदया विजेतुः स्मरस्य एषः श्रमः भवं विहाय मुक्ति गतानाम् अनुतापनाय / व्याख्या--गुरोः= बृहस्पते: अपि = च इमां भणदोष्ठकण्ठ निरुक्तिगर्वछिदया, विजेतुः = स्मरस्य, वर्णपदोष्ठकण्ठसौन्दर्यातिशयनिर्वचनाहङ्कारभङ्गेन शिक्षयितुः कामस्य एष:-दमयन्तीनिर्माणरूपः, श्रमः = परिश्रमः, भवं%D जन्ममरणादिक्लेशबहुलत्वधियां संसार, विहाय = त्यक्त्वा, मुक्तिम् = मोक्षम् गतानाम्, मुक्तानामित्यर्थः अनुतायानाय / दमयन्ती सद्भावात् सदानन्दमयत्वेन संसार एव मोक्ष सुखम् वयं संसारं त्यक्त्वा मुधा मुक्ता एवं रूप पश्चात्तापाय। टिप्पणी--मणदोष्ठकण्ठनिरुक्तिगर्वच्छिदया = ओष्ठी च कण्ठञ्चेति ओष्ठकण्ठम् प्राण्यङ्गत्वाद् एकवद्भावः / भणत् यत् ओष्ठकण्ठम् तयोः निरुक्तिसर्वच्छिदा तया ( द्वन्द्वः, कर्मधारयः, ष० तत्पु०) छिदा=अत्र "षिद्भिदाकिन्योऽ" इत्यङ्प्रत्ययः स्त्रियां भावे / विजेतुरत्र ताच्छील्ये तृच् / सौन्दर्यनिर्वचनकर्मणि भीमपुत्र्याः कष्ठोष्ठकुण्ठनभृतो विगतस्मयस्य / तद्वाक्पतेरपि विनेतुरयं स्मरस्य मुक्तात्मनां समनुतापकरः प्रयासः / / अनुवाद:-इस दमयन्ती के वर्णन में ओष्ठ और कण्ठ के कुण्ठन से नष्ट हुये गर्व वाले वृहस्पति को शिक्षा को देने के लिये कामदेव का दमयन्ती के